________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 322 // महाचारकथा, सूत्रम् 64-66 शोभावर्जनम्। सूत्रम् 67-68 उपसंहारः। विभूसावत्तिअंभिक्खू, कम्मं बंधइ चिक्कणं / संसारसायरे घोरे, जेणं पडइ दुरुत्तरे।सूत्रम् 65 // षष्ठमध्ययनं विभूसावत्तिअंचेअं, बुद्धा मन्नंति तारिसं। सावजबहुलं चेअं, नेयं ताईहिं सेविअं॥ सूत्रम् 66 // उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशस्थानम्, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः अलङ्कतश्चापि चरेद्धर्ममित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह-'नगिणस्स'त्ति सूत्रम्, नग्नस्य वापि कुचेलवतोऽप्युपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां दीर्घरोमनखवतः दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनांशरीरेषु तमस्यपि न लगन्ति / मैथुनाद् उपशान्तस्य उपरतस्य, किं विभूषया राढया कार्य?, न किञ्चिदिति सूत्रार्थः॥६४ // इत्थं प्रयोजनाभावमभिधायापायमाह-'विभूस'त्ति सूत्रम्, विभूषाप्रत्ययं विभूषानिमित्तं भिक्षुः साधुः कर्म बध्नाति चिक्कणं दारुणम्, संसारसागरे घोरे की रौद्रे येन कर्मणा पतति दुरुत्तारे अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः॥६५॥ एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह-'विभूस'त्ति सूत्रम्, विभूषाप्रत्ययं विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः तीर्थकरा मन्यन्ते जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशंसावद्यबहुलं चैतद् आर्तध्यानानुगतं / चेतः, नैतदित्थंभूतं त्रातृभिः आत्मारामैः साधुभिः सेवितं आचरितम्, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः॥६६॥ खवंति अप्पाणममोहदंसिणो, तवे रया संजमअज्जवे गुणे। धुणंति पावाइं पुरेकडाई, नवाईपावाइंन ते करंति॥सूत्रम् 67 // सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो। उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उति ताइणो॥ सूत्रम् 68 //