________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 321 // षष्ठमध्ययन महाचारकथा, सूत्रम् 60-63 स्नान वर्जनम्। वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए। वुकंतो होइ आयारो, जढो हवइ संजमो॥ सूत्रम् 60 // संतिमे सुहुमा पाणा, घसासु भिलुगासु ।जे अभिक्खू सिणायंतो, विअडेणुप्पलावए।। सूत्रम् 61 // तम्हा ते न सिणायंति, सीएण उसिणेण वा / जावज्जीवं वयं घोरं, असिणाणमहिट्ठगा। सूत्रम् 62 / / सिणाणं अदुवा कक्वं, लुद्धं पउमगाणि ।गायस्सुव्वट्टणट्ठाए, नायरंति कयाइवि।सूत्रम् 63 // उक्तो निषधास्थानविधिः, तदभिधानात्षोडशस्थानम्, साम्प्रतं सप्तदशस्थानमाह-वाहिओव'त्ति सूत्रम्, व्याधिमान् वा / व्याधिग्रस्तः अरोगी वा रोगविप्रमुक्तो वा स्नानं अङ्गप्रक्षालनं यस्तु प्रार्थयते सेवत इत्यर्थः, तेनेत्थंभूतेन व्युत्क्रान्तो भवति शोभाआचारोबाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, जढः परित्यक्तो भवति संयमः प्राणिरक्षणादिकः, अप्कायादिविराधना वर्जनम्। दिति सूत्रार्थः॥६०॥प्रासुकस्नानेन कथं संयमपरित्याग इत्याह-'संतिमे'त्ति सूत्रम्, सन्ति एते प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः श्लक्ष्णाः प्राणिनो द्वीन्द्रियादयः घसासुशुषिरभूमिषु भिलुगासु च तथाविधभूमिराजीषु च, यांस्तु भिक्षुः स्नानजलोज्झनक्रियया विकृतेन प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थः॥६१॥ निगमयन्नाह-'तम्ह'त्ति सूत्रम्, यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधवो न स्नान्ति शीतेन वोष्णेनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त / इत्याह-यावज्जीवं आजन्म व्रतं घोरंदुरनुचरमस्नानमाश्रित्य अधिष्ठातारः अस्यैव कर्तार इति सूत्रार्थः॥६२॥ किंच 'सिणाणं ति सूत्रम्, स्नानं पूर्वोक्तम्, अथवा कल्कं चन्दनकल्कादि' लोधे, गन्धद्रव्यं पद्मकानि च कुङ्कमकेसराणि, चशब्दादन्यच्चैवंविधं // 32 // गात्रस्य उद्वर्त्तनार्थं उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः॥६३॥ नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो। मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? // सूत्रम् 64 //