________________ श्रीदश वैकालिक श्रीहारिक सूत्रम् वृत्तियुतम् // 320 // गोअरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ। इमेरिसमणायारं, आवजइ अबोहिअं॥ सूत्रम् 56 // षष्ठमध्ययनं विवत्ती बंभचेरस्स, पाणाणंच वहे वहो। वणीमगपडिग्घाओ, पडिकोहो अगारिणं॥सूत्रम् 57 // महाचारकथा, अगुत्ती बंभचेरस्स, इत्थीओवावि संकणं। कुसीलवड्वणं ठाणं, दूरओ परिवजए। सूत्रम् 58 // 56-59 तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई। जराए अभिभूअस्स, वाहिअस्स तवस्सिणो॥सूत्रम् 59 // निषद्या वर्जनम्। उक्तः पर्यस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह-गोअरग्ग'त्ति सूत्रम्, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु एवं ईदृशं वक्ष्यमाणलक्षणमनाचारं आपद्यते प्राप्नोति अबोधिकं मिथ्यात्वफलमिति सूत्रार्थः॥५६॥अनाचारमाह-'विवत्ति'त्ति सूत्रम्, विपत्तिर्ब्रह्मचर्यस्य- आज्ञाखण्डनादोषतः साधुसमाचरणस्य प्राणिनां च वधे वधो भवति, तथा संबन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणा- अदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानांच स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः // 57 // तथा अगुत्ति'त्ति सूत्रम्, अगुप्तिर्ब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानं- उक्तेन प्रकारेणासंयमवृद्धिकारकम्, दूरतः परिवर्जयेत् परित्यजेदिति सूत्रार्थः // 58 // सूत्रेणैवापवादमाह-'तिण्ह'त्ति सूत्रम्, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते / औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह- जरयाऽभिभूतस्य अत्यन्तवृद्धस्य व्याधिमतः // 320 // अत्यन्तमशक्तस्य तपस्विनो विकृष्टक्षपकस्य / एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः॥५९॥