SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 319 // तुपुरःकर्म व्याचक्षते, एतच्चन कल्पते धर्मचारिणाम्, यतश्चैवमतः एतदर्थं पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, क्वेत्याह- षष्ठमध्ययनं गृहिभाजने अनन्तरोदित इति सूत्रार्थः // 52 // महाचारकथा, सूत्रम् आसंदीपलिअंकेसु, मंचमासालएसुवा / अणायरिअमज्जाणं, आसइत्तु सइत्तु वा // सूत्रम् 53 // 53-55 नासंदीपलिअंकेसु, न निसिजा न पीढए। निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिट्ठगा॥सूत्रम् 54 // पर्यादि वर्जनम्। गंभीरविजया एए, पाणा दुप्पडिलेहगा। आसंदी पलिअंको अ, एअमटुं विवजिआ॥सूत्रम् 55 // उक्तो गृहिभाजनदोषः, तदभिधानाच्चतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह-'आसंदि'त्ति सूत्रम्, आसन्दीपर्यो / प्रतीतौ, तयोरासन्दीपर्ययोः प्रतीतयोः, मञ्चाशालकयोश्च, मञ्चः- प्रतीतः आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः अनाचरितं अनासेवितं आर्याणां साधूनां आसितुं उपवेष्टुं स्वप्तुं वा निद्रातिवाहनं वा कर्तुम्, शुषिरदोषादिति सूत्रार्थः॥ 53 // अत्रैवापवादमाह-'नासंदि'त्ति सूत्रम्, न आसन्दीपर्ययोः प्रतीतयोः न निषद्यायां- एकादिकल्परूपायां न पीठकेवेत्रमयादौ निर्ग्रन्थाः साधवः अप्रत्युपेक्ष्य चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसंबध्यते, न कुर्वन्तीति / किंविशिष्टा निर्ग्रन्थाः? इत्याह- बुद्धोक्ताधिष्ठातारः तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः॥ 54 // तत्रैव दोषमाह-'गंभीर'त्ति सूत्रम्, गम्भीरं- अप्रकाशं विजय- आश्रयः अप्रकाशाश्रया एते प्राणिनामासन्धादयः, एवंच प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यङ्कश्च चशब्दान्मञ्चादयश्च एतदर्थं विवर्जिताः साधुभिरिति सूत्रार्थः॥५५॥ // 319 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy