SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 318 // चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः // 47 / / अकल्पिके षष्ठमध्ययन दोषमाह-'जे'त्ति सूत्रम्, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागं ति नित्यमामन्त्रितं पिण्डं ममायन्ती ति परिगृह्णन्ति, महाचारकथा, सूत्रम् तथा क्रीतमौद्देशिकाहृतं एतानि यथा क्षुल्लकाचारकथायां वधं त्रसस्थावरादिघातं ते द्रव्यसाध्वादयः अनुजानन्ति दातृप्रवृत्त्यनु-81404 मोदनेन इत्युक्तं च महर्षिणा वर्धमानेनेति सूत्रार्थः॥४८॥ यस्मादेवं तम्ह'त्ति सूत्रम्, तस्मादशनपानादि चतुर्विधमपि यथोदितं गृहिभाजन पर्यादि क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो महासत्त्वा निर्ग्रन्थाः साधवो धर्मजीविनः संयमैकजीविन इति सूत्रार्थः॥४९॥ वर्जनम्। कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो। भुंजतो असणपाणाई, आयारा परिभस्सइ॥ सूत्रम् 50 // सीओदगसमारम्भे, मत्तधोअणछड्डणे। जाइंछंनंति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो॥सूत्रम् 51 // पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ। एअमट्ठन भुंजंति, निग्गंथा गिहिभायणे।सूत्रम् 52 // उक्तोऽकल्पस्तदभिधानात्त्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह-'कंसेसु'त्ति सूत्रम्, कंसेषु करोटकादिषु कंसपात्रेषु तिलकादिषु कुण्डमोदेषुहस्तिपादाकारेषु मृन्मयादिषुभुञ्जानोऽशनपानादि तदन्यदोषरहितमपि आचारात् श्रमणसंबन्धिनः परिभ्रश्यति अपैतीति सूत्रार्थः॥५०॥कथमित्याह-'सीओदगंति सूत्रम्, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा शीतोदकसमारम्भे सचेतनोदकेन भाजनधावनारम्भे तथा मात्रकधावनोज्झने कुण्डमोदादिषु लक्षालनजलत्यागे यानि क्षिप्यन्ते हिंस्यन्ते भूतानि अप्कायादीनि सोऽत्र- गृहिभाजनभोजने दृष्ट उपलब्धः केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति सूत्रार्थः॥५१॥ किंच-पच्छाकम्मति सूत्रम्, पश्चात्कर्म पुरःकर्म स्यात्- तत्र कदाचिद्भवेदहिभाजनभोजने, पश्चात्पुरःकर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधवो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन // 318 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy