SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् एककनिक्षेपः। // 1 // ग्रन्थेन, यतश्चैवमतः दसकालियं ति कालेन निर्वृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, प्रथममध्ययन तथा श्रुतस्कन्धं तथाऽध्ययनं उद्देशं तदेकदेशभूतम्, किं?- निक्षेप्तुमनुयोगोऽस्य कर्त्तव्य इति गाथार्थः॥ तत्र 'यथोद्देशं निर्देश' द्रुमपुष्पिका, नियुक्तिः८ इति न्यायादधिकृतशास्त्राभिधानोपयोगित्वाच्च दशशब्दस्यैवादौ निक्षेपः प्रदर्श्यते-तत्र दशैकाद्यायत्ता वर्तन्ते, एकाद्यभावे दशानामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह नि०- णामं ठवणा दविए माउयपयसंगहेक्कए चेव / पज्जवभावे य तहा सत्तेए एक्कगाहोंति // 8 // इहैक एव एककः, तत्र नामैककः एक इति नाम स्थापनैककः एक इति स्थापना, द्रव्यैककं त्रिधा-सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यम्, अचित्तमेकं रूपकद्रव्यम्, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, मातृकापदैककं एकं मातृकापदम्, तद्यथा'उप्पन्ने इवे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्नेइ वा विगमेइ वा 0 धुवेइ वा अमूनि च (वा) मातृकापदानि अ आ इ ई इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मातृकापदानि, इह चाभिधेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, सङ्घहैककः शालिरिति, अयमत्र भावार्थ:- सङ्ग्रहः- समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात् अयंचादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यौ, पर्यायैककः एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरम्, स चानादिष्टोवर्णादिः आदिष्टः कृष्णादिरिति / अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्थं व्याचक्षते-अनादिष्टः श्रुतस्कन्ध आदिष्टोदशकालिकाख्य। ७०पदेष्वपि (प्र०)। (c) चूणा-अणाइटुं दसगालियं आइडं दुमपुष्फिअं सामण्णपुब्वियं एवमादि /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy