________________ प्रथममध्ययन श्रीदशवैकालिक श्रीहारि० द्रुमपुष्पिका, नियुक्तिः वृत्तियुतम् // 10 // दशवैकालिकानुयोगारम्भः 'निक्षेपे तिप्रथमद्वारं च। ननु दसकालियनिजुत्तिं कीत्तइस्सामित्ति अस्मादेव वचनतः प्रकृतद्वारार्थस्यावगतत्वात् तदुपन्यासोऽनर्थक इति, न, अधिकृतनिक्षेपादिद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्रूलेनैव च नियुक्तिकारेणापितथोपन्यस्तत्वात्, अस्मादेवस्थानादन्यत्राप्यादौ शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना। व्याख्यातंलेशतो नियुक्तिगाथादलम्, पश्चाई त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितद्भेदसूत्रादिलक्षणतदईपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयत्वादित्यलं प्रसङ्गेन // साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकारः नि०- एयापरूवेउं कप्पे वण्णियगुणेण गुरुणा उ।अणुओगो दसवेयालियस्स विहिणा कहेयव्वो॥६॥ एतानि निक्षेपादिद्वाराणि प्ररूप्य व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः / अनुयोगो दशवैकालिकस्य विधिना प्रवचनोक्तेन कथयितव्य आख्यातव्य इति गाथार्थः॥सम्प्रत्यजानानः शिष्यः पृच्छति- यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त! किमङ्गमङ्गानि? श्रुतस्कन्धः श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषांमध्ये त्रयो विकल्पाः खलु प्रयुज्यन्ते, तद्यथा- दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेपः कर्त्तव्यः, तद्यथा- दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकारः नि०- दसकालियंति नाम संखाए कालओय निद्देसो। दसकालियसुअखंधं अज्झयणुद्देस निक्खिविउं॥७॥ दशकालिकं प्राग्निरूपितशब्दार्थं इति एवंभूतं यत् नाम अभिधानम्, इदं किं?-संख्यानं संख्या तया, तथा कालतश्च कालेन चायं-निर्देशः निर्देशनं निर्देशः, विशेषाभिधानमित्यर्थः, अस्य च निबन्धनं विशेषेण वक्ष्यामः ‘मणगं पडुच्च' इत्यादिना // 10 //