SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 9 // जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वा व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्याँश्चोदयति, प्रथममध्ययन मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानवबुद्ध्याप्रतिबद्धो विहरति देशनांच करोति, आसन्नलब्धप्रतिभो / द्रुमपुष्पिका, नियुक्तिः जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, 4-5 ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारण- पृथक्त्वानु योगाधिकारनयनिपुणस्तद्गम्यान भावान् सम्यक्प्ररूपयति नागममात्रमेव,ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् श्वरणकरणासुखं परमताक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्पादयति, शिवो नुयोगस्यच मारिरोगाद्युपद्रवविघातकृद्भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एवं गुणशतकलितो निक्षेपादि | द्वाराणि। योग्यः प्रवचनं-आगमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च-गुणसुट्ठिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ। गुणहीणस्स न सोहइ णेहविहीणो जह पईवो॥१॥ तथा चान्येनाप्युक्तं क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति / आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः॥१॥ तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु / न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् // 2 // शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः। शीलविपन्नस्य वचः पथ्यमपि नही गृह्यते तद्वत् // 3 // चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः। शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव // 4 // कस्स त्ति कस्यानुयोग? इति वक्तव्यम्, तत्र सकलश्रुतज्ञानस्याप्यनुयोगोभवति, अमुंपुनःप्रारम्भमाश्रित्य दशकालिकस्येति / अत्राह अन्यायसूत्रे पञ्चमाघ्यायाद्याह्निके सविस्तरं जातिस्वरूपम् / पि कार्ये (प्र०)। 0तसमन्वितः (प्र०)। 0 गुणसुस्थितस्य वचनं घृतमधुसिक्तः पावक इव भाति / गुणहीनस्य न शोभते स्नेहविहीनो यथा प्रदीपः // 1 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy