________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 315 // षष्ठमध्ययन महाचारकथा, सूत्रम् 36-39 तेजस्कायसमारम्भ वर्जनविधिः। प्राच्या प्रतीच्यां वापि पूर्वायां पश्चिमायां चेत्यर्थः, ऊर्ध्वमनुदिक्ष्वपि, 'सुपांसुपो भवन्ती'ति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणतश्चापि दहति दाह्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति सूत्रार्थः॥ 33 // यतश्चैवमतो 'भूआण'त्ति सूत्रम्, भूतानां स्थावरादीनामेष आघात आघातहेतुत्वादाघातः हव्यवाहः अग्निः न संशय इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन तं' हव्यवाहं प्रदीपप्रतापनार्थं आलोकशीतापनोदार्थम् / संयताः साधवः किञ्चित् संघट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः॥३४॥ यस्मादेवं तम्ह त्ति सूत्रम्, व्याख्या पूर्ववत् // 35 // अणिलस्स समारंभं, बुद्धा मन्नंति तारिसं। सावज्जबहुलं चेअं, नेअंताईहि सेवि।सूत्रम् 36 // तालिअंटेण पत्तेण, साहाविहुअणेण वा। न ते वीइउमिच्छंति, वेआवेऊण वा परं / / सूत्रम् 37 // जंपि वत्थं व पायं वा, कंबलं पायपुंछणं / न ते वायमुईरंति, जयं परिहरंति अ॥ सूत्रम् 38 // तम्हा एअंविआणित्ता, दोसंदुग्गइवड्ढणं / वाउकायसमारंभं, जावजीवाइ वज्जए। सूत्रम् 39 // उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-'अणिलस्स'त्ति, अनिलस्य वायोः समारम्भंतालवृन्तादिभिः / करणं बुद्धाः तीर्थकरा मन्यन्तेजानन्ति तादृशंजाततेजःसमारम्भसदृशम् / सावद्यबहुलं पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनंत्रातृभिः सुसाधुभिः सेवितं आचरितं मन्यन्ते बुद्धा एवेति सूत्रार्थः॥३६॥ एतदेव स्पष्टयति-तालियंटेण त्ति सूत्रम्, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायाम्, न ते साधवो वीजितुमिच्छन्त्यात्मानमात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः॥३७॥ उपकरणात्तद्विराधनेत्येतदपि 7 नव पूर्वा वादी' अदिदादौ स्वसुपि वा पूर्वादयो नव सर्वादिरिति शाकटायनसूत्ररहस्यान्नापप्रयोगशङ्का /