SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 314 // षष्ठमध्ययन महाचारकथा. सूत्रम् 32-35 तेजस्कायसमारम्भ वर्जनविधिः। संयताः साधवः सुसमाहिता उद्युक्ता इति सूत्रार्थः ॥२६॥अत्रैव हिंसादोषमाह-'पुढवि'त्ति सूत्रम्, पृथिवीकायं हिंसन्नालेखनादिना प्रकारेण हिनस्त्येव तुरवधारणार्थो व्यापादयत्येव, तदाश्रितान् पृथिवीश्रितान् त्रसांश्च विविधान् प्राणिनो द्वीन्द्रियादीन् / चशब्दात्स्थावरांश्चाप्कायादीन् चाक्षुषांश्चाचाक्षुषांश्च चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२७॥यस्मादेवं तम्ह'त्ति सूत्रम्, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं पृथिवीकायसमारंभमालेखनादियावज्जीवं यावज्जीवमेव वर्जयेदिति सूत्रार्थः ॥२८॥उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यते-आउकायं ति सूत्रम्, सूत्रत्रयमप्कायाभिलापेन नेयम्, ततश्चायमप्युक्त एव // 29-30-31 // जायतेअंन इच्छंति, पावगंजलइत्तए। तिक्खमन्नयरं सत्थं, सव्वओऽवि दुरासयं // सूत्रम 32 // पाईणं पडिणं वावि, उड़े अणुदिसामवि / अहे दाहिणओ वावि, दहे उत्तरओवि अ॥सूत्रम 33 // भूआणमेसमाघाओ, हव्ववाहो न संसओ। तं पईवपयावट्ठा, संजया किंचि नारभे ॥सूत्रम् 34 // तम्हा एअंविआणित्ता, दोसंदुग्गइवडणं / तेउकायसमारंभं, जावजीवाइ वजए।सूत्रम् 35 // साम्प्रतं नवमस्थानविधिमाह-'जायते'ति सूत्रम्, जाततेजा- अग्निः, तं जाततेजसं नेच्छन्ति मनःप्रभृतिभिरपि पापकं पाप एव पापकस्तम्, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह- ज्वालयितुं उत्पादयितुं वृद्धिं वा नेतुम्, किंविशिष्टमित्याह- तीक्ष्णं छेदकरणात्मकं अन्यतरच्छस्त्रं सर्वशस्त्रम्, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः॥ 32 // एतदेव स्पष्टयन्नाह-पाईणं ति सूत्रम्, (r) वाचा कायेन चेच्छादर्शकचेष्टानिरोधात् /
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy