________________ श्रीदश- वैकालिक श्रीहारिक वृत्तियुतम् // 311 // द्रवगुडः, एतल्लवणाद्येवंप्रकारमन्यच्च न ते साधवः संनिधिं कुर्वन्ति पर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरताः भगवद्वर्धमानवचसि / षष्ठमध्ययन निःसङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः॥ 17 // संनिधिदोषमाह-'लोभस्स'त्ति सूत्रम्, लोभस्य चारित्रविघ्नकारिण- महाचारकथा, सूत्रम् चतुर्थकषायस्य एसोऽणुप्फास त्ति एषोऽनुस्पर्शः- एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो मन्ये मन्यन्ते, प्राकृतशैल्या 17-21 एकवचनम्, एवमाहुस्तीर्थकरगणधराः अन्यतरामपि स्तोकामपि यः स्यात् यः कदाचित्संनिधिं कामयते सेवते गृही गृहस्थोऽसौ | अपरिग्रह विधिः। भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थः // 18 // आह- यद्येवं वस्त्रादि धारयतां साधूनां कथमसंनिधिरित्यत आह जंपि त्ति सूत्रम्, यदप्यागमोक्तं वस्त्रं वा चोलपट्टकादि पात्रं वा अलाबुकादि कम्बलं वर्षाकल्पादि, पादपुंछनं रजोहरणम्, तदपि संयमलज्जार्थ मिति संयमार्थं पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रम्, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादिधारयन्ति, पुष्टालम्बनविधानेन परिहरन्ति च परिभुञ्जते च मूर्छारहिता इति सूत्रार्थः // 19 // यतश्चैवमतः-'न सो'त्ति सूत्रम्, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन? ज्ञातपुत्रेण ज्ञात- उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन त्रात्रा स्वपरपरित्राणसमर्थेन, अपितु मूर्छा असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वाद्, अर्थतस्तीर्थकरेण, ततोऽवधार्य इति एवमुक्तो महर्षिणा गणधरेण, सूत्रे सेजंभव आहेति सूत्रार्थः ॥२०॥आह- वस्त्राद्यभाव 8 // 311 // भाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद्, आह च'सव्वत्थ'त्ति सूत्रम्, सर्वत्र उचिते क्षेत्रे काले च उपधिना आगमोक्तेन वस्त्रादिना सहापि बुद्धा यथावद्विदितवस्तुतत्त्वाः साधव