SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 312 // षष्ठमध्ययनं महाचारकथा, सूत्रम् 22-25 रात्रिभोजनत्याग विधिः। संरक्षणपरिग्रह इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन?, ते हि भगवन्तः अप्यात्मनोऽपि देह इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति ममत्वं आत्मीयाभिधानम्, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः // 21 // अहो निच्चं तवो कम्मं, सव्वबुद्धेहिं वण्णिाजाव लज्जासमा वित्ती, एगभत्तं च भोअणं // सूत्रम् 22 // संतिमे सुहुमा पाणा, तसा अदुव थावरा / जाइंराओ अपासंतो, कहमेसणिअंचरे?॥सूत्रम् 23 // उदउल्लं बीअसंसत्तं, पाणा निवडिया महिं / दिआ ताई विवजिज्जा, राओ तत्थ कहं चरे?।सूत्रम् 24 // एअंच दोसंदणं, नायपुत्तेण भासि। सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं / / सूत्रम् 25 // उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याह-'अहो'त्ति सूत्रम्, अहो नित्यं तपःकर्मे ति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपःकर्म-तपोऽनुष्ठानं सर्वबुद्धैः सर्वतीर्थकरैः वर्णितं देशितम्, किंविशिष्टमित्याहयावल्लज्जासमा वृत्तिः लज्जा- संयमस्तेन समा- सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्तिः- देहपालना एकभक्तं च भोजनंएकंभक्तं द्रव्यतो भावतश्च यस्मिन् भोजनेतत्तथा, द्रव्यत एकं- एकसंख्यानुगतम्, भावत एकं-कर्मबन्धाभावादद्वितीयम्, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः॥२२॥रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति-'संतिमे'त्ति सूत्रम्, सन्त्येते- प्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः प्राणिनो जीवाः त्रसा- द्वीन्द्रियादयः अथवा स्थावराः- पृथिव्यादयः यान् प्राणिनोरात्रावपश्यन् चक्षुषा कथं एषणीयं सत्त्वानुपरोधेन चरिष्यति भोक्ष्यते च?, असंभव 0 यद्यप्यवचूर्णिदीपिकयो स्तीदं तथापि प्रतिग्रहप्रतिलेखनादोषसंपातिमसत्त्वोपरोधसंग्रहार्थं स्याचेन्नासंभव इति मन्ये, सर्वादशेषु दर्शनात् / // 312 // 8080888888888888
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy