________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 309 // षष्ठमध्ययन महाचारकथा, सूत्रम् 13-14 अदत्तानादानमैथुन विवर्जनविधिः। उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-'अप्पण?'त्ति सूत्रम्, आत्मार्थं आत्मनिमित्तमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि परार्थं वा परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे तज्जातीयग्रहण'मिति मानाद्वा अबहुश्रुत एवाहं बहुश्रुत इत्यादि मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरान्नलाभेसति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि, यदिवा भयाकिञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम्, अत एवाह- हिंसक परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्यं वादयेत्, ‘एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽप्यन्यान्नसमनुजानीयादिति सूत्रार्थः॥११॥किमित्येतदेवमित्याह-'मुसावाउ'त्ति सूत्रम्, मृषावादोहि लोकेसर्वस्मिन्नेव सर्वसाधुभिः गर्हितो निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातापालनात्, अविश्वासश्च अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थः॥१२॥ चित्तमंतमचित्तं वा, अप्पं वा जइवा बहुं / दंतसोहणमित्तंपि, उग्गहंसि अजाइया॥ सूत्रम् 13 // तं अप्पणा न गिण्हंति नोऽवि गिण्हावए परं / अन्नं वा गिण्हमाणंपि, नाणुजाणंति संजया।सूत्रम् 14 / / उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-'चित्तमंत'त्ति सूत्रम्, चित्तव द्विपदादि वा अचित्तवद्वा हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतश्च, यदिवा बहु मूल्यप्रमाणाभ्यामेव, किं बहुना?- दन्तशोधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गह्णन्ति साधवः कदाचनेति सूत्रार्थः // 13 // एतदेवाह-तंति सूत्रम्, तत् चित्तवदादि आत्मना न गृह्णन्ति विरतत्वात्, नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव नानुजानन्ति नानुमन्यन्ते संयता इति सूत्रार्थः॥१४॥