________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 308 // जावंति लोए पाणा, तसा अदुव थावरा / ते जाणमजाणं वा, न हणे णोवि घायए। सूत्रम् 9 // सव्वे जीवावि इच्छंति, जीविउंन मरिजिउं / तम्हा पाणवहं घोरं, निग्गंथा वजयंति णं॥ सूत्रम् 10 // व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्यायते, अस्य चायमभिसंबन्धः-गुणा अष्टादशसुस्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह-'तत्थिमं ति सूत्रम् / तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण इदं वक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण भगवता अपश्चिमतीर्थकरेण देशितं कथितं यदुताहिंसेति / इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह- निपुणा आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु दृष्टा साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीयमेव निपुणेत्यत आह- यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः॥८॥ एतदेव स्पष्टयन्नाह-'जावंति' सूत्रम्, यतो हि भागवत्याज्ञा यावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः अथवा स्थावरा:- पृथिव्यादयस्तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्या अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः एकग्रहणे तज्जातीयग्रहणाद् घ्नतोऽप्यन्यान्न समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः॥ 9 // अहिंसैव कथं साध्वीत्येतदेवाह-सव्वे'त्ति सूत्रम्, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं घोरं रौद्रं दुःखहेतुत्वाद् निर्ग्रन्थाः साधवो वर्जयन्ति भावतः / / णमिति वाक्यालङ्कार इति सूत्रार्थः // 10 // अप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया। हिंसगंन मुसंबूआ, नोवि अन्नं वयावए॥सूत्रम् 11 // मुसावाओ उ लोगम्मि, सव्वसाहहिं गरिहिओ। अविस्सासो अभूआणं, तम्हा मोसं विवजए। सूत्रम् 12 // षष्ठमध्ययन महाचारकथा, सूत्रम् 9-10 अष्टादशस्थानानि | सूत्रम् 11-12 अहिंसाऽमृषा स्थानस्यविधिः। // 308 //