________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 307 // षष्ठमध्ययन महाचारकथा, सूत्रम् 6-7 सूत्रम् 8 व्यक्तानाम्, सबालवृद्धानामित्यर्थः, व्याधिमतांचशब्दादव्याधिमतांच, सरुजानां नीरुजानांचेति भावः, ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा / कर्तव्यास्तथेति सूत्रार्थः॥६॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते- दस त्ति सूत्रम्, दशाष्टौ च स्थानानि असंयमस्थानानि वक्ष्यमाणलक्षणानि यानि आश्रित्य बालः अज्ञःअपराध्यति तत्सेवनयाऽपराधमाप्नोति, कथम- नियुक्तिः पराध्यतीत्याह- तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निर्ग्रन्थत्वात् निर्ग्रन्थभावाद् भ्रश्यति निश्चयनयेनापति बाल इति सूत्रार्थः॥ 267-268 अष्टादशासंयम ७॥अमुमेवार्थ सूत्रस्पर्शनियुक्त्या स्पष्टयति स्थानानि। नि०- अट्ठारस ठाणाई आयारकहाएंजाइंभणियाई। तेसिं अन्नतरागं सेवंतु न होइ सो समणो॥२६७ // अष्टादशअष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैस्तेषामन्यतरस्थानं सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः / / 267 // कानि पुनस्तानि स्थानानीत्याह नियुक्तिकारः नि०- वयछक्कं कायछक्कं, अकप्पो गिहिभायणं / पलियंकनिसेज्जा य, सिणाणं सोहवजणं // 268 // व्रतषट्कं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि कायषट्कं-पृथिव्यादयः षड्जीवनिकायाः अकल्पः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः गृहिभाजनं गृहस्थसंबन्धि कांस्यभाजनादि प्रतीतं पर्यङ्कःशयनविशेष:प्रतीतः। निषद्या चल गृहे एकानेकरूपा स्नानं देशसर्वभेदभिन्नं शोभावर्जनं विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जन // 307 // स्नानवर्जनमित्यादीति गाथार्थः॥२६८॥ तत्थिमं पढमं ठाणं, महावीरेण देसि। अहिंसा निउणा दिट्ठा, सव्वभूएसुसंजमो।सूत्रम् 8 // स्थानानि।