________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् षष्ठमध्ययन महाचारकथा, नियुक्तिः |262-264 कामनिक्षेपाः कामस्य भेदाः / // 305 // नि०- हसिअ 3 ललिअ 4 उवगूहिअ५ दंत 6 नहनिवाय ७चुंबणं 8 होइ। आलिंगण 9 मायाणं 10 कर 11 सेवण 12 संग 13 किड्डा 14 अ / / 262 // हसितं- वक्रोक्तिगर्भ प्रतीतं ललितं- पाशकादिक्रीडा उपगूहितं- परिष्वक्तं दन्तनिपातो- दशनच्छेद्यविधिः नखनिपातोनखरदनजातिः चुम्बनं चैवेति- चुम्बनविकल्पः आलिङ्गनं- ईषत्स्पर्शनं आदानं- कुचादिग्रहणं करसेवणं ति प्राकृतशैल्या / करणासेवने, तत्र करणं नाम-नागरकादिप्रारम्भयन्त्रं आसेवनं- मैथुनक्रिया अनङ्गक्रीडाच-अस्यादावर्थक्रियेति गाथार्थः // 262 / / उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपत्नते अभिधित्सुराह नि०-धम्मो अत्थो कामो भिन्ने ते पिंडिया पडिसवत्ता। जिणवयणं उत्तिन्ना असवत्ता होंति नायव्वा // 263 // धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन प्रतिसपत्नाः परस्परविरोधिनः लोके कुप्रवचनेषु च, यथोक्तं- अर्थस्य मूलंह निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च / धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च // 1 // इत्यादि एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णास्ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वस्वरूपतो वा निश्चयेन असपत्नाः परस्पराविरोधिनो भवन्ति ज्ञातव्या इति गाथार्थः // 263 // तत्र व्यवहारेणाविरोधमाह नि०- जिणवयणमि परिणए अवत्थविहिआणुठाणओ धम्मो। सच्छासयप्पयोगा अत्थो वीसंभओ कामो॥२६४ // जिनवचने यथावत्परिणते सति अवस्थोचितविहितानुष्ठानात्-स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचार- पालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्रम्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः।। 264 // अधुना निश्चयेनाविरोधमाह // 30 //