SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 298 // पञ्चचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् 50 उपसंहारः। वाच्ये असकृद्धावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः॥४८॥ प्रकृतमुपसंहरति-'एअंच'त्ति सूत्रम्, एनं च दोषं- अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्रा आगमतो ज्ञातपुत्रेण भगवता वर्द्धमानेन भाषितं उक्तं अणुमात्रमपि स्तोकमात्रमपिकिमुत प्रभूतं? मेधावी मर्यादावर्ती मायामृषावादं अनन्तरोदितं वर्जयेत् परित्यजेदिति सूत्रार्थः॥४९॥ सिक्खिऊण भिक्खेसणसोहिं, संजयाण बुद्धाण सगासे / तत्थ भिक्खु सुप्पणिहिइंदिए, तिव्वलज्जगुणवं विहरिज्जासि // सूत्रम्५०॥ तिबेमि॥समत्तं पिंडेसणानामज्झयणं पंचमं // 5 // अध्ययनार्थमुपसंहरन्नाह-‘सिक्खिऊण'त्ति सूत्रम्, शिक्षित्वा अधीत्य भिक्षैषणाशुद्धिं पिण्डमार्गणाशुद्धिमुद्रमादिरूपाम्, केभ्यः सकाशादित्याह-संयतेभ्यः साधुभ्यो बुद्धेभ्यः अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याहतत्र भिक्षैषणायां भिक्षुः साधुः सुप्रणिहितेन्द्रियः श्रोत्रादिभिर्गाढं तदुपयुक्तः तीव्रलज्ज उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्- सामाचारीपालनं कुर्याद्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः। उक्तोऽनुगमः। साम्प्रतं नयाः, ते च पूर्ववदेव / द्वितीयोद्देशकः समाप्तः, व्याख्यातं पिण्डैषणाध्ययनम् // 50 // ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वत्तौ पञ्चममध्ययनं पिण्डैषणाख्यं समाप्तमिति // // 298 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy