________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 297 // पञ्चचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् 46-49 तपस्तेनादिदोषाः। पोषणादिति सूत्रार्थः॥४४॥ तथा आयरिए'त्ति सूत्रम्, आचार्यानाराधयति, शुद्धभावत्वात्, श्रमणांश्चापि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति, किमिति?, येन जानन्ति तादृशं शुद्धवृत्तमिति सूत्रार्थः॥ 45 // तवतेणे वयतेणे, रूवतेणे अजे नरे।आयारभावतेणे अ, कुव्वई देवकिव्विसं / / सूत्रम् 46 / / लखूणवि देवत्तं, उववन्नो देवकिव्विसे। तत्थाविसे न याणाइ, किं मे किच्चा इमं फलं?॥सूत्रम् 47 // तत्तोवि से चइत्ताणं, लब्भिही एलमूअयं / नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा // सूत्रम् 48 // एअंच दोसंदट्टणं, नायपुत्तेण भासि। अणुमायपि मेहावी, मायामोसं विवज्जए। सूत्रम् 49 // स्तेनाधिकार एवेदमाह-'तव'त्ति सूत्रम्, तपस्तेनो वास्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियांतथाभावदोषाद्देवकिल्बिषं करोति-किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति-साधव एव क्षपकाः, तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्यरूपः, एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः॥ 46 // अयं चेत्थंभूतः लभूण'त्ति सूत्रम्, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो देवकिल्बिषे देवकिल्बिषिका ये, तत्राप्यसौ न जानात्यविशुद्धावधिना, किं मम कृत्वा इदं फलं किल्बिषिकदेवत्वमिति सूत्रार्थः // 47 // अत्रैव दोषान्तरमाह- 'तत्तोवि'त्ति सूत्रम्, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकतां अजाभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः सकलसंपनिबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा। इह च प्राप्नोत्येलमूकतामिति // 297 //