________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 296 // पञ्चचममध्ययन पिण्डैषणा, द्वितीयोद्देशकः सूत्रम् 42-45 तपस्विनो गुणाः / भावत्वात्- श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ते कुत्सन्ति, किमिति?- येन जानन्ति तादृशं दुष्टशीलमिति सूत्रार्थः॥ 40 // एवं तु'त्ति सूत्रम्, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षी अगुणान्- प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा गुणानां च अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः त्यागी तादृशः क्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं चारित्रमिति सूत्रार्थः // 41 // तवं कुव्वइ मेहावी, पणीअंवजए रसं / मज्जप्पमायविरओ, तवस्सी अइउक्कसो॥सूत्रम् 42 // तस्स पस्सह कल्लाणं, अणेगसाहुपूइ। विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे // सूत्रम् 43 // एवं तु सगुणप्पेही, अगुणाणंच विवज्जए। तारिसो मरणंतेऽवि, आराहेइ संवरं / / सूत्रम् 44 // आयरिए आराहेइ, समणे आवि तारिसे। गिहत्थाविण पूयंति, जेण जाणंति तारिसं॥सूत्रम् 45 // यतश्चैवमत एतद्दोषपरिहारेण तवं ति सूत्रम्, तपः करोति मेधावी मर्यादावर्ती प्रणीतं स्निग्धं वर्जयति रसं घृतादिकम्, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, तपस्वी साधुः अत्युत्कर्षः अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः // 42 // तस्स'त्ति सूत्रम्, तस्य इत्थंभूतस्य पश्यत कल्याणं गुणसंपद्रूपं संयमम्, किंविशिष्टमित्याह- अनेकसाधुपूजितम्, पूजितमिति-सेवितमाचरितम्, विपुलं विस्तीर्णं विपुलमोक्षावहत्वात् अर्थसंयुक्तं तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत मे ममेति सूत्रार्थः॥४३॥ एवं तु' उक्तेन प्रकारेण 'स' साधुः गुणप्रेक्षी गुणान् अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जक: त्यागी तादृश:शुद्धवृत्तो मरणान्तेऽपि चरमकालेऽप्याराधयति संवरं चारित्रम्, सदैव कुशलबुद्ध्या तद्बीज // 296 //