________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 289 // यतना। वीर्याचारं न लड़येत् / तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेद्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं पञ्चचममध्ययन नाहारार्थमेवातोन शोचेत्, अपितु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणंतपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः॥ पिण्डैषणा, द्वितीयोद्देशकः // उक्ता कालयतना, अधुना क्षेत्रयतनामाह- तहेव त्ति, तथैव उच्चावचाः शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं ] सूत्रम् समागता बलिप्राभृतिकादिष्वागता भवन्ति, तहजुकं तेषामभिमुखं न गच्छेत्, तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु 4-13 असंस्तरणे यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः // 7 // किं च 'गोअरग्ग'त्ति सूत्रम्, गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट पुनर्भिक्षाचर्या इत्यर्थः न निषीदेत् नोपविशेत् क्वचिद् गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, कथां च धर्मकथादिरूपां न प्रबध्नीयात् कालादिप्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह- स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः॥ 8 // उक्ता क्षेत्रयतना, द्रव्ययतनामाह-'अग्गलं'ति सूत्रम्, अर्गलं गोपुरकपाटादिसंबन्धिनं परिघं| नगरद्वारादिसंबन्धिनं द्वारं शाखामयं कपाटं द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादोषात्, गोचराग्रगतो भिक्षाप्रविष्टः, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः // 9 // उक्ता द्रव्ययतना, भावयतनामाह समणं तिसूत्रम्, श्रमणं निर्ग्रन्थादिरूपम्, ब्राह्मणं धिग्वर्णं वापि कृपणं वा पिण्डोलकं वनीपकंपञ्चा(नांवनीपका)नामप्यन्यतमं उपसंक्रामन्तं सामीप्येन गच्छन्तं गतं वा भक्तार्थं पानार्थं वा संयतः साधुरिति सूत्रार्थः // 10 // 'त'मिति सूत्रम्, तं श्रमणादि। अतिक्रम्य उल्लङ्घय न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे / कस्तत्र विधिरित्याह- एकान्तमवक्रम्य तत्र तिष्ठेत् / संयत इति सूत्रार्थः॥११॥ अन्यथैते दोषा इत्याह-वणीमगस्स'त्ति सूत्रम्, वनीपकस्य वा तस्ये त्येतच्छ्रमणाधुपलक्षणम्, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्- अहो अलोकज्ञतैतेषामिति, लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः॥१२॥ // 289 //