________________ श्रीदश वैकालिक श्रीहारि० वृत्तियुतम् पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 82-86 वसत्यभावे भोजनविधिः। // 280 // 'थोवं'ति सूत्रम्, स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मे अत्यम्लं पूति नालं तृडपनोदाय / ततःकिमनेनानुपयोगिनेति सूत्रार्थः॥७८॥ 'तंच'त्ति सूत्रम्, सुगमम् // 79 // आस्वादितं च सत्साधुप्रायोग्य चेगृह्यत एव नो चेदग्राह्यम् / 'तं च'त्ति सूत्रम्, तच्च अत्यम्लादि भवेद् अकामेन उपरोधशीलतया विमनस्केन अन्यचित्तेन प्रतीप्सितं गृहीतं तदात्मना कायापकारकमित्यनाभोगधर्मश्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम्, इह च सव्वत्थ संजमं संजमाओ अप्पाणमेवे'त्यादि भावनयेति सूत्रार्थः / / 80 // अस्यैव विधिमाह-‘एगंतं ति सूत्रम्, एकान्तं अवक्रम्य गत्वा अचित्तं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति गम्यते यतं अत्वरितं प्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्वं व्युत्सृजेत् / प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् / एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः॥८१॥ सिआ अगोयरग्गगओ, इच्छिजा परिभुत्तुअं(भुंजिउं)। कुट्टगं भित्तिमूलं वा, पडिलेहिताण फासुअं॥ सूत्रम् 82 // अणुन्नवित्तु मेहावी, पडिच्छन्नंमि संवुडे / हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजए।सूत्रम् 83 // तत्थ से भुंजमाणस्स, अट्ठिअंकंटओ सिआ। तणकट्ठसक्करं वावि, अन्नं वावितहाविहं। सूत्रम् 84 // तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए। हत्थेण तंगहेऊण, एगंतमवक्कमे // सूत्रम् 85 // एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ। जयं परिट्ठविजा, परिठ्ठप्प पडिक्कमे।सूत्रम् 86 // एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाह-'सिआ 'त्ति सूत्रम्, स्यात् कदाचिद् गोचराग्रगतो ग्रामान्तरं भिक्षा प्रविष्ट इच्छेत्परिभोक्तुं पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावेकोष्ठकंशून्यचट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि, // 280 //