________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 277 // ण तेण भिक्खूगच्छिज्जा, दिट्ठो तत्थ असंजमो। गंभीरं झुसिरंचेव, सव्विंदिअसमाहिए। सूत्रम् 66 // पञ्चचममध्ययनं निस्सेणिं फलगं पीढं, उस्सवित्ताणमारूहे। मंचं कीलंच पासायं, समणट्ठा एव दावए।सूत्रम् 67 // पिण्डैषणा, प्रथमोद्देशकः दुरूहमाणी पवडिजा, हत्थं पायं व लूसए। पुढविजीवे विहिंसिज्जा, जे अतन्निस्सिया जगे॥ सूत्रम् 68 // सूत्रम् एआरिसे महादोसे, जाणिऊण महेसिणो / तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया।सूत्रम् 69 // 65-69 दायकदोषाः। गोचराधिकार एव गोचरप्रविष्टस्य होज्जत्ति सूत्रम्, भवेत् काष्ठं शिला वापि इट्टालं वाऽपि एकदा एकस्मिन् काले प्रावृडादौ / सूत्रम् 70 स्थापितं संक्रमार्थम्, तच्च भवेत् चलाचलं अप्रतिष्ठितम्, न तु स्थिरमेवेति सूत्रार्थः // 65 // ‘ण तेण' त्ति सूत्रम्, न तेन कन्दादि प्रतिषेधः। काष्ठादिना भिक्षुर्गच्छेत्, किमिति?, अत्राह- दृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात्, तथा गम्भीर अप्रकाशं शुषिरं चैव अन्तःसाररहितम्, सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः॥६६॥ किं च- णिस्सेणिं ति सूत्रम्, निश्रेणिं फलकं पीढं उस्सवित्ता उत्सृत्य ऊर्ध्वं कृत्वा इत्यर्थः, आरोहेन्मञ्चम्, कीलकं च उत्सृत्य कमारोहेदित्याह- प्रासादम्, श्रमणार्थं साधुनिमित्तं दायको दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः॥ 67 // अत्रैव दोषमाह- दुरूहमाणि त्ति सूत्रम्, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं पादंवा लूषयेत् स्वकं स्वत एव खण्डयेत्, तथा पृथ्वीजीवान् विहिंस्यात्, कथंचित्तत्रस्थान्, तथा यानि च तनिश्रितानि जगन्ति प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः॥ 68 // 'एआरिसे' त्ति सूत्रम्, ईदृशान् अनन्तरोदितरूपान्महादोषान् ज्ञात्वा महर्षयः साधवः। यस्माद्दोषकारिणीयं तस्मात् मालापहृतां मालादानीतां भिक्षां न प्रतिगृह्णन्ति संयताः, पाठान्तरं वा हंदि मालोहडं ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः / / 69 // कंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं / तुंबागं सिंगबेरंच, आमगं परिवजए। सूत्रम् 70 // // 277 //