________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 6 // श्चतुर्विधो भवति, कथं? चरणकरणानुयोगः चर्यत इति चरणं- व्रतादि, यथोक्तं वय समणधम्मसंजम वेर्यावच्चं च बंभगुत्तीओ।। प्रथममध्ययन णाणादितियं तव कोहनिग्गहाई चरणमेयं ॥१॥क्रियते इति करणं-पिण्डविशयादि. उक्तं च पिंडविसोही समिई भावण पडिम द्रुमपुष्पिका, य इंदियनिरोहो / पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु // 1 // चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो. नियुक्तिः योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा चतुर्विधो(द्वितीया)न्तोऽपि द्रष्टव्यः, यथा कयरे आगच्छइ दित्तरूवे इत्यादि, धर्म इति धर्मकथानुयोगः, काले चेति कालानुयोगश्च / नुयोगः। गणितानुयोगश्चेत्यर्थः, द्रव्ये चे ति द्रव्यानुयोगश्च / तत्र कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च कालियसुअंच इसिभासियाइ तइया यसूरपन्नत्ती। सव्वो य दिट्ठिवाओ चउत्थओ होइ अणुओगो॥१॥इति गाथार्थः // इह चार्थतोऽनुयोगो द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्चतत्रापृथक्त्वानुयोगो यत्रैकस्मिन्नेव सूत्रेसर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यायत्वात्सूत्रस्य, पृथक्त्वानुयोगश्च यत्र क्वचित्सूत्रे चरणकरणमेव क्वचित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता जावंत अज्जवइरा अपुहत्तं कालियाणु ओगस्स। तेणारेण पुहत्तं कालियसुय दिट्ठिवाए य॥१॥ इत्यादेन्थादावश्यकविशेषविवरणाचावसेयेति // इह पुनः पृथक्त्वानुयोगेनाधिकारः, तथा चाह नियुक्तिकारः 0व्रतानि श्रमणधर्मः संयमो वैयावृत्त्यं च ब्रह्मगुप्तयः / ज्ञानादित्रयं तपः क्रोधनिग्रहादि चरणमेतत् / / Oपिण्डविशुद्धिः समितयः भावनाः प्रतिमाश्च इन्द्रियनिरोधः। प्रतिलेखना गुप्तयः अभिग्रहाश्चैव करणं तु / / 0 कतर आगच्छति दीप्तरूपः। 0 कालिकश्रुतं च ऋषिभाषितानि तृतीया (गणितानुयोगमयी) च सूर्यप्रज्ञप्तिः। सर्वश्व दृष्टिवादश्चतुर्थो भवत्यनुयोगः॥७ यावदार्यवज्रा अपृथक्त्वं कालिकानुयोगस्य / ततोऽर्वाक् (तत आरात्) पृथक्त्वं कालिकश्रुते दृष्टिवादे च // 1 वक्तव्या प्र.।