SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् प्रथममध्ययनं द्रुमपुष्पिका, नियुक्तिः 2-3 चतुर्विधोअनुयोगः। // 5 // धिगम्यते साध्यत इतियावत्, अथवा मङ्ग इति धर्माभिधानम्, ला आदाने अस्य धातोर्मङ्गे उपपदे आतोऽनुपसर्गे कः (पा० 3-2-3) इति कप्रत्ययान्तस्यानुबन्धलोपे कृते आतो लोप इटि च (पा०६-४-६४) क्ङिति इत्यनेन सूत्रेणाकारलोपे च कृते प्रथमैकवचनान्तस्यैव मङ्गलमिति भवति, मङ्गलातीति मङ्गलम्, धर्मोपादानहेतुरित्यर्थः, अथवा मांगालयति भवादिति मङ्गलम्, संसारादपनयतीत्यर्थः। तच्च नामादि चतुर्विधम्, तद्यथा नाममङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलंचेति, एतेषांच स्वरूपमावश्यकविशेषविवरणादवसेयमिति ॥अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकारः नि०-नामाइमंगलं पिय चउव्विहं पन्नवेऊणं // 2 // नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य प्ररूप्येति गाथार्थः। तत्र समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह नि०-सुयनाणे अणुओगेणाहिगयं सो चउब्विहो होइ। चरणकरणाणुओगे धम्मे गणिए (काले)य दविए य॥३॥ श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना- भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तं एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु / सेसाणमप्पणोऽविय अणुओगु पईवदिढतो॥१॥तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तइ तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञातस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि श्रुतज्ञानेऽनुयोगेनाधिकृत मिति। सः अनुयोग (r) अत्र पुनरधिकारः श्रुतज्ञानेन यतः श्रुतेनैव / शेषाणामात्मनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात्) | 0 श्रुतज्ञानस्य उद्देशः समुद्देशः अनुज्ञा अनुयोगः प्रवर्तते। // 5 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy