SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 4 // प्रथममध्ययन द्रुमपुष्पिका, नियुक्ति:२ मङ्गलत्रय हेतुः | शब्दार्थश्च। नि०-आइमज्झवसाणे काउंमंगलपरिग्गहं विहिणा। शास्त्रस्यादौ- प्रारम्भे मध्ये- मध्यविभागे अवसाने- पर्यन्ते, किं?- कृत्वा मङ्गलपरिग्रहम्, कथं?- विधिना प्रवचनोक्तेन प्रकारेण, आह-किमर्थं मङ्गलत्रयपरिकल्पनम्? इति, उच्यते, इहादिमङ्गलपरिग्रहः सकलविघ्नापोहेनाभिलषितशास्त्रार्थपारगमनार्थम्, तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः,तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति। अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ इति / सामान्यतस्तु सकलमपीदंशास्त्र मङ्गलम्, निर्जरार्थत्वात्तपोवत्, न चासिद्धो हेतुः, यतो वचनविज्ञानरूपं शास्त्रम्, ज्ञानस्य च निर्जरार्थता प्रतिपादितैव, यत उक्तं जं णेरइओ कम्म खवेइ बहुयाहिं वासकोडीहिं। तं नाणी तिहि गुत्तोखवेइ ऊसासमेत्तेणं॥१॥इत्यादि। इह चादिमङ्गलं द्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलं तु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात्, चरममङ्गलंतु भिक्ष्वध्ययनादि, भिक्षुगुणाद्यवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागो निदर्शितः, अधुना सूत्रविभागेन निदर्श्यते- तत्र चादिमङ्गलं 'धम्मो मंगल' इत्यादिसूत्रम्, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यममङ्गलं पुनः ‘णाणदंसणे' त्यादि सूत्रम्, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलंतु 'णिक्खम्ममाणाइय' इत्यादि, भिक्षुगुणस्थिरीकरणार्थं विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति / आह-मङ्गलमिति कःशब्दार्थः?, उच्यते, ‘अगिरगिलगिवगिमगीति' दण्डकधातुः, अस्य इदितो नुम् धातो (पा० 7-1-58) रिति नुमि विहिते औणादिकालच्प्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति।मङ्गयते हितमनेनेति मङ्गलम्, मङ्गन्यते 0 यत्नैरयिकः कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः / तज्ज्ञानी त्रिभिगुप्तः क्षपयत्युच्छ्रासमात्रेण // 1 // (c) मङ्गलस्वरूपत्वात् वि. प.। 0 ०करणभिक्षु. (प्र०) // 4 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy