________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 3 // मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः॥१॥व्यवच्छेदश्चैतेषांसामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, कर्मविशुद्धेभ्यः प्रथममध्ययन इत्यनेन तु सकर्मकाणिमादिविचित्रैश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टैः अणिमाद्यष्टविधं द्रुमपुष्पिका, नियुक्तिः१ प्राप्यैश्वर्यं कृतिनः सदा। मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम्॥१॥ इत्यादि, व्यवच्छेदश्चैतेषां कर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः | मङ्गलम्। सिद्धत्वानुपपत्तेरिति, सर्वसिद्धेभ्यः इत्यनेन तु भङ्गन्यैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं प्रस्तुतनयाभिप्रायमतावलम्बिभिः एक एव हि भूतात्मा, भूते भूते व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥व्यवच्छेदश्चास्य सर्वथा अद्वैते बहुवचनगर्भसर्वशब्दाभावात् (सिद्धिगतिगमनाभावात्)। 'नत्वा' प्रणम्येति, अनेन तुसमानकर्तृकयोः पूर्वकाले / क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्त्वाप्रत्ययार्थानुपपत्तेः, तत्र नित्यैकान्तवादे तावदात्मन एकान्तनित्यत्वादप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति। भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्च नियुक्तिकारः, 'पित्रे सवित्रे च सदा नमामी' त्येवमादिविचित्र-8 प्रयोगदर्शनाच्च, कर्मणि वा षष्ठी / सर्वसिद्धेभ्यो नत्वा किमित्याह- दशकालिकनियुक्तिं कीर्त्तयिष्यामि तत्र कालेन निर्वृत्तं कालिकम्, प्रमाणकालेनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारं कालिकं प्रकारशब्दलोपाद्दशकालिकम्, विशब्दार्थ / तूत्तरत्र व्याख्यास्यामः, तत्र नियुक्तिरिति-निर्युक्तानामेव सूत्रार्थानां युक्तिः-परिपाट्या योजनं निर्युक्तयुक्तिरिति वाच्ये युक्तशब्दलोपानियुक्तिस्तां- विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्तयिष्यामीति गाथार्थः॥ शास्त्राणि चादिमध्यावसानमङ्गलभाञ्जि भवन्तीत्यत आह // 3 //