________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 2 // सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्तिं कीर्तयिष्यामीति क्रिया। तत्र सिद्ध्यन्ति- निष्ठितार्था भवन्त्यस्यामिति प्रथममध्ययन सिद्धिः- लोकाग्रक्षेत्रलक्षणा, तथा चोक्तं इह बोंदि चइत्ता णं, तत्थ गंतूण सिज्झइ / गम्यत इति गतिः, कर्मसाधनःसिद्धिरेवल द्रुमपुष्पिका, नियुक्तिः१ गम्यमानत्वाद्रगतिःसिद्धिगतिस्तामुप- सामीप्येन गताः- प्राप्तास्तेभ्यः, सकललोकान्तक्षेत्रप्राप्तेभ्य इत्यर्थः, प्राकृतशैल्या मङ्गलम्। चतुर्थ्यर्थे षष्ठी, यथोक्तं छट्ठीविभत्तीएँ भण्णइ चउत्थी / तत्र एकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तस्वरूपा भवन्त्यत आह कर्मविशुद्धेभ्यः क्रियते इति कर्म-ज्ञानावरणीयादिलक्षणं तेन विशुद्धा-वियुक्ताः कर्मविशुद्धा:कर्मकलङ्करहिता इत्यर्थः, तेभ्यः कर्मविशुद्धेभ्यः। आह- एवं तर्हि वक्तव्यम्, न सिद्धिगतिमुपगतेभ्यः, अव्यभिचारात्, तथाहि-कर्मविशुद्धाः सिद्धिगतिमुपगता एव भवन्ति, न, अनियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य, तथा चाहुरेके रागादिवासनामुक्तं, चित्तमेव निरामयम् / सदाऽनियतदेशस्थं,सिद्ध इत्यभिधीयते॥१॥इत्यलं प्रसङ्गेन। ते च तीर्थादिसिद्धभेदादनेकप्रकारा भवन्ति, तथा चोक्तं तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलिंगसिद्धा एगसिद्धा अणेगसिद्धा इत्यत आह- सर्वसिद्धेभ्यः सर्वे च ते सिद्धाश्चेति समासस्तेभ्यः, अथवा सिद्धिगतिमुपगतेभ्यः इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा चोक्तमधिकृतनयमतानुसारिभिः गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः। 0 इह बोन्दिं त्यक्त्वा तत्र गत्वा सिध्यति / 0 षष्ठीविभक्त्या भण्यते चतुर्थी 1 0 तीर्थसिद्धा अतीर्थसिद्धाः तीर्थकरसिद्धा अतीर्थकरसिद्धाः स्वयंबुद्धसिद्धाः // 2 // प्रत्येकबुद्धसिद्धाः बुद्धबोधितसिद्धाः स्त्रीलिङ्गसिद्धाः पुरुषलिङ्गसिद्धा नपुंसकलिङ्गसिद्धाः स्वलिङ्गसिद्धा अन्यलिङ्गसिद्धा गृहिलिङ्गसिद्धा एकसिद्धा अनेकसिद्धाः / 10 गुणाः सत्त्वरजस्तमोरूपाः सत्त्वमात्मा तयोरन्तरं विशेष इति वि. प. /