________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् / / 274 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 55 औदेशिकादिदोषाः। दानार्थं प्रवृत्तव्यापारं संयतानामकल्पिकम्, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४८॥ 'असणं ति सूत्रम्, एवं पुण्यार्थम्, पुण्यार्थं प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति / अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानांपुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्त्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, स्वभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य निषेधात्, स्वभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्यैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथाविधग्रहणान्न दोष इत्यलंप्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति // 49 // तं भवेत्ति सूत्रम्, प्रतिषेधः पूर्ववत् // 50 // असणं'ति सूत्रम्, एवं वनीपकार्थं वनीपका:- कृपणाः॥५१॥ तं भवे' त्ति सूत्रम्, प्रतिषेधः पूर्ववत् // 52 // असणं'ति सूत्रम्, एवं श्रमणार्थम्, श्रमणा- निर्ग्रन्थाः शाक्यादयः॥५३॥ तं भवे' त्ति सूत्रम्, प्रतिषेधः पूर्ववत् // 54 // उद्देसिअंकीअगडं, पूइकम्मंच आहडं। अज्झोअर पामिच्चं, मीसजायं विवजए॥ सूत्रम् 55 // किंच-'उद्देसिअंति सूत्रम्, उद्दिश्य कृतमौद्देशिकं- उद्दिष्टकृतकर्मादिभेदम्, क्रीतकृतं- द्रव्यभावक्रयक्रीतभेदं पूतिकर्म- संभाव्यमानाधाकर्मावयवसंमिश्रलक्षणम्, आहृतं- स्वग्रामाहृतादि, तथा अध्यवपूरकं-स्वार्थमूलाद्रहणप्रक्षेपरूपम्, प्रामित्यंसाध्वर्थमुच्छिद्य दानलक्षणम्, मिश्रजातं च- आदित एव गृहिसंयतमिश्रोपस्कृतरूपम्, वर्जयेदिति सूत्रार्थः // 55 // // 24 //