________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 271 // वर्तत इति सूत्रार्थः / / 37 // ततो 'दुण्हं'ति सूत्रम्, द्वयोस्तु पूर्ववत् भुजतो जानयोर्वा द्वावपि तत्रातिप्रसादेन निमन्त्रयेयाताम्, पश्चचममध्ययन पिण्डैषणा, तत्रायं विधिः- दीयमानं प्रतीच्छेद्गृह्णीयात् यत्तत्रैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थः // 38 // विशेषमाह-'गुम्विणीए' प्रथमोद्देशकः त्ति सूत्रम्, गुर्विण्या गर्भवत्या उपन्यस्तं उपकल्पितम्, किंतदित्याह- विविधं अनेकप्रकारं पानभोजनंद्राक्षापानखण्डखाद्यकादि, सूत्रम् तत्र भुज्यमानं तया विवर्ण्यम्, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, भुक्तशेष भुक्तोद्धरितं प्रतीच्छेत्, |37-44 कल्पिकायत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थः॥ 39 // किंच-'सिआ य'त्ति सूत्रम्, स्याच कदाचिच्च श्रमणार्थ साधुनिमित्तं गुर्विणी कल्पिक पूर्वोक्ता कालमासवती गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्चिन्निषीदेद् निषण्णा ददामीति साधुनिमित्तम्, भक्तपानम्। निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः // 40 // तं भवे' त्ति सूत्रम्, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकम्, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थः॥४१॥ किंच-'थणगं'ति सूत्रम्, स्तनं (न्यं) पाययन्ती, किमित्याह- दारकं वा कुमारिकाम्, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदद्भूम्यादी आहरेत्पानभोजनम्, अत्रायं वृद्धसंप्रदायः-गच्छवासी जड़ थणजीवी पिअंतो णिक्खित्तो तो न गिण्हंति, रोवउ वा मा वा, अह अन्नंपि आहारेइ तो जति ण रोवइ तो गिण्हंति, अह रोवइ तो न गिण्हंति, अह अपिअंतो णिक्खित्तो थणजीवी रोवइ. ®छन्देन निमन्त्रणाज्ञापनार्थमतीत्यादि / 0 गच्छवासी यदि स्तन्यजीवी पिबन् निक्षिप्तस्तदा न गृह्णाति, रोदितु वा मा वा, अथान्यदप्याहारयति तदा यदि न रोदिति तदा गृह्णाति, अथ रोदिति तदा न गृह्णाति, अथापिबन् निक्षिप्तः स्तन्यजीवी रोदिति - // 271 //