________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 269 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 35-36 पश्चात्कर्मदोषः। एवं सस्निग्धेन हस्तेन, सस्निग्धो नाम ईषदुदकयुक्तः, एवं सरजस्केन हस्तेन सरजस्को नाम- पृथिवीरजोगुण्डितः, एवं मृद्गतेन हस्तेन मृद्गतो नाम- कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम्, एतावन्ति एव एतानि सूत्राणि, नवरमूषः- पांशुक्षारः, हरितालहिङ्गलकमनःशिलाः- पार्थिवा वर्णकभेदाः, अञ्जनं- रसाञ्जनादि लवणं- सामुद्रादि // 33 // तथा 'गेरु'त्ति सूत्रम्, गैरिका- धातुः, वर्णिका पीतमृत्तिका, श्वेतिका- शुक्लमृतिका, सौराष्ट्रिका- तुवरिका, पिष्टं- आमतण्डुलक्षोदः, कुक्कुसाः प्रतीताः, कृतेनेति एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति, तथा असंसृष्टो व्यञ्जनादिना अलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति, विधिं पुनरत्रोचं वक्ष्यति स्वयमेवेति सूत्रार्थः // 34 // असंसद्रुण हत्थेण, दव्वीए भायणेण वा / दिज्जमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे॥सूत्रम् 35 // संसटेण य हत्थेण, दव्वीए भायणेण वा। दिजमाणं पडिच्छिज्जा, जंतत्थेसणियं भवे।सूत्रम् 36 // आह च-'असंसटेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन- अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, किं सामान्येन?, नेत्याह- पश्चात्कर्म भवति 'यत्र' दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः // 35 // संसट्टेण' त्ति सूत्रम्, संसृष्टेन हस्तेन- अन्नादिलिप्तेन, तथा दा भाजनेन वा दीयमानं प्रतीच्छेद् गृह्णीयात्, किं सामान्येन? नेत्याहयत्तत्रैषणीयं भवति, तदन्यदोषरहितमित्यर्थः, इह च वृद्धसंप्रदाय:- संसढे हत्थे संसट्टे मत्ते सावसेसे दव्वे, संसट्टे हत्थे संसट्टे (r) संसृष्टो हस्तः संसृष्टं मात्रकं (०ममत्र) सावशेषं द्रव्यम्, संसृष्टो हस्तः संसृष्टं - // 269 //