________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 266 // सूत्रम् 24-26 अइभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी। कुलस्स भूमिं जाणित्ता, मिभूमिं परक्कमे।सूत्रम् 24 // पश्चचममध्ययन तत्थेव पडिलेहिज्जा, भूमिभागं विअक्खणो। सिणाणस्स य वच्चस्स, संलोग परिवज्जए।सूत्रम् 25 // पिण्डैषणा, प्रथमोद्देशकः दगमट्टिअआयाणे, बीआणि हरिआणि अ। परिवजंतो चिट्ठिजा, सव्विंदिअसमाहिए।सूत्रम् 26 / / इहैव विशेषमाह- असंसत्तं तिसूत्रम्, असंसक्तं प्रलोकयेत्न योषिदृष्टेदृष्टिं मेलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, | असंसक्ततथा नातिदूरं प्रलोकयेत् दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा उत्फुल्लं विकसितलोचनं न विणिज्झाए प्रलोकनम्। त्ति न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन्- दीनवचनमनुच्चारयन्निति // 23 // तथा- अइभूमिं न गच्छिज्जा इति सूत्रम्, अतिभूमिंन गच्छेद्- अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासंभवमाह, किं तर्हि?, कुलस्य भूमि- उत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः // 24 // विधिशेषमाह-तत्थेव त्ति सूत्रम्, तत्रैव तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागं उचितं भूमिदेशं विचक्षणो विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह, तत्र च तिष्ठन् स्नानस्य तथा वर्चसो विष्ठायाः संलोकं परिवर्जयेत्, एतदुक्तं भवति- स्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः॥२५॥ किंच- दग त्ति सूत्रम्, उदकमृत्तिकादानं आदीयतेऽनेनेत्यादानो- मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः, बीजानि शाल्यादीनि हरितानि च। // 266 // दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः // 26 // 388080808080