________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 264 // पञ्चचममध्ययन पिण्डैषणा, प्रथमोद्देशकः सूत्रम् 19 वर्षोमूत्राधारणम्। गुह्यापवरकमन्त्रगृहादि संक्लेशकरं असदिच्छा- प्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः // 16 // किंच-'पडिकुट्ठ'त्ति सूत्रम्, प्रतिकुष्टकुलं द्विविधं- इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तम्, यावत्कथिकं- अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, मामकं यत्राऽऽह गृहपतिः- मा मम कश्चिद्गृहमागच्छेत्, एतत् वर्जयेत्, भण्डनादिप्रसङ्गात्, अचिअत्तकुलं अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चिन्निमित्तान्तरात्, एतदपि न प्रविशेत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, चिअत्तं अचिअत्तविपरीतं प्रविशेत्कुलम्, तदनुग्रहप्रसङ्गादिति सूत्रार्थः॥१७॥ किं च-साणि'त्ति सूत्रम्, शाणीप्रावारपिहित मिति शाणी अतसीवल्कजा पटी, प्रावारः- प्रतीतः कम्बल्याधुपलक्षणमेतत्, एवमादिभिः पिहितं-स्थगितम्, गृहमिति वाक्यशेषः। आत्मना स्वयं नापवृणुयात् नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात्, तथा कपाटं द्वारस्थगनं न प्रेरयेत् नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषेण?, नेत्याह- अवग्रहमयाचित्वा आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वेति सूत्रार्थः॥१८॥ गोअरग्गपविठ्ठो अ, वच्चमुत्तं न धारए। ओगासंफासुअंनच्चा, अणुनविअवोसिरे। सूत्रम् 19 // विधिशेषमाह-'गोयरग्ग'त्ति सूत्रम्, गोचराग्रप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति / अस्य विषयोवृद्धसंप्रदायादवसेयः,सचायं-पुवमेव साहुणा सन्नाकाइओवयोगं काऊण गोअरे पविसिअव्वं, कहिंविण कओ कए वा पुणो होज्जा ताहे वच्चमुत्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवघाओ भवति, वच्चनिरोहे जीविओवधाओ, 0 पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यम्, कदाचिन्न कृतः कृते वा पुनर्भवेत् तदा वर्षोमूत्रं न धारयितव्यम्, यतो मूत्रनिरोधे चक्षुष उपघातो भवति, वर्णोनिरोधे जीवितोपघातः, - // 264 //