________________ श्रीदश- साणं ति सूत्रम्, श्वानं लोकप्रतीतम्, सूतां गां अभिनवप्रसूतामित्यर्थः दृप्तं च दर्पितम्, किमित्याह- गावं हयं गजम्, गौः- पञ्चचममध्ययनं लकबलीवर्दो हयः- अश्वो गजो-हस्ती। तथा संडिम्भं बालक्रीडास्थानं कलह वाक्प्रतिबद्धं युद्धं खगादिभिः, एतत् दूरतो दूरेण पिण्डैषणा, श्रीहारि० प्रथमोद्देशकः वृत्तियुतम् परिवर्जयेत्, आत्मसंयमविराधनासंभवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डन-1 सूत्रम् // 263 // प्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः॥१२॥ अत्रैव विधिमाह-'अणुण्णए' त्ति 12-18 आत्मसंयमसूत्रम्, अनुन्नतो द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, नावनतो द्रव्यभावाभ्यामेव, विराधना। द्रव्यानवनतोऽनीचकायःभावानवनतः अलब्ध्यादिनाऽदीनः अप्रहृष्टः अहसन् अनाकुलः क्रोधादिरहितः इन्द्रियाणि स्पर्शनादीनि यथाभागं यथाविषयं दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः साधुः चरेद् गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि- द्रव्योन्नतो लोकहास्यः भावोन्नत ईर्यां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यानह इति सूत्रार्थः // 13 // किंच-‘दवदवस्स'त्ति सूत्रम्, द्रुतं द्रुतं त्वरितमित्यर्थः, न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्चं- द्रव्यभावभेदाविधाद्रव्योच्चं धवलगृहवासि भावोच्चं जात्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति / दोषा। उभयविराधनालोकोपघातादय इति सूत्रार्थः॥१४॥अत्रैव विधिमाह- आलोअंथिग्गलं तिसूत्रम्, अवलोकं निहकादिरूपं थिग्गलं चितं द्वारादि, सन्धिः- चितं क्षत्रम्, उदकभवनानि पानीयगृहाणि चरन् भिक्षार्थं न विनिध्यायेत् विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः॥ 15 // किंच-'रण्णो'त्ति सूत्रम्, राज्ञः- चक्रवर्त्यादेः गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणमिति योगः, आरक्षकाणां च दण्डनायकादीनां 'रहःस्थानं' // 263 //