________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 251 // चतुर्धमध्ययनं षड्जीवनिकायम्, सूत्रगाथा 14-25 जीवाजीवादि ज्ञानेन मोक्षप्राप्तिः। जया लोगमलोगंच, जिणो जाणइ केवली / तया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ / / 23 // जया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ। तया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ॥२४ / / जया कम्मखवित्ता णं, सिद्धिं गच्छइ नीरओ। तया लोगमत्थयत्थो, सिद्धो हवइ सासओ॥२५॥ साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह- जया इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति सदा तस्मिन् काले गतिं नरकरगत्यादिरूपांबहुविधांस्वपरगतभेदेनानेकप्रकारांसर्वजीवानांजानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् // 14 // उत्तरोत्तरां फलवृद्धिमाह- जया इत्यादि, यदा गतिं बहुविधां सर्वजीवानांजानाति तदा पुण्यं च पापंच-बहुविधगतिनिबन्धनं (च) तथा बन्धंजीवकर्मयोगदुःखलक्षणं मोक्षच तद्वियोगसुखलक्षणं जानाति // 15 // जया इत्यादि, यदा पुण्यं च पापंच बन्धं मोक्षंच जानाति तदा निर्विन्ते- मोहाभावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान् शब्दादीन् या दिव्यान् यांश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥१६॥जया इत्यादि, यदा निर्विन्ते भोगान्यान् दिव्यान्यांश्चमानुषान् तदा त्यजति संयोग संबन्धं द्रव्यतो भावतः साभ्यन्तरबाह्य क्रोधादिहिरण्यादिसंबन्धमित्यर्थः ॥१७॥जया इत्यादि, यदा त्यजति संयोगंसाभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति प्रकर्षण व्रजत्यपवर्ग प्रत्यनगारम्, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः // 18 // जया इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा संवरमुक्किट्ठ ति प्राकृतशैल्या उत्कृष्टसंवरं धर्मं- सर्वप्राणातिपातादिविनिवृत्तिरूपम्, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरंसम्यगासेवत इत्यर्थः॥१९॥ जया इत्यादि, यदोत्कृष्टसंवरं धर्मं स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति कर्मरजः कमैव आत्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह- अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः // 20 // // 251 //