SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आदश वैकालिक चतुर्थमध्ययनं षड्जीव श्रीहारिक वृत्तियुतम् निकायम, / / 249 // सूत्रगाथा 10-13 संयमार्थ ज्ञानाप्राधान्यम्। तस्यैवं सम्यग्- वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य इन्द्रियनोइन्द्रियदमेन पापं कर्म न बध्यते तस्य पापकर्मबन्धो न भवतीत्यर्थः // 9 // एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह पढमं नाणं तउ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किंवा नाही छेअपावगं?॥१०॥ सोच्चाजाणइ कल्लाणं, सोच्चा जाणइ पावगं। उभयंपिजाणए सोच्चा, जंछेयं तं समायरे॥११॥ जोजीवेविन याणेइ, अजीवे विन याणेइ / जीवाजीवे अयाणंतो, कह सो नाहीइ संजमं // 12 // जो जीवेवि वियाणेइ, अजीवेवि वियाणेइ। जीवाजीवे वियाणंतो, सो हुनाहीइ संजमं॥१३॥ पढमणाण मित्यादि, प्रथम-आदौ ज्ञान-जीवस्वरूपसंरक्षणोपायफलविषयं ततः तथाविधज्ञानसमनन्तरं दया संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवं अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति आस्ते सर्वसंयतः सर्वः प्रव्रजितः, यःपुनः अज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किंवा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं पापकं वा अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तं- गीअत्थो अ विहारो बीओ गीअत्थमीसिओ भणि इत्यादि, अतो ज्ञानाभ्यासः कार्यः॥१०॥ तथा चाह- सोच्चा इत्यादि, 'श्रुत्वा' आकर्ण्य ससाधनस्वरूपविपाकं जानाति गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः। // 249 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy