SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 248 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रगाथा 1-9 अयतस्य कर्मबन्धः। साम्प्रतमुपदेशाख्यः पञ्चम उच्यते- अजय मित्यादि, अयतं चरन् अयतं अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषणमेतत्, चरन्- गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घय, न त्वन्यथा, किमित्याह-प्राणिभूतानि हिनस्ति प्राणिनो न्द्रयादयः भूतानि- एकेन्द्रियास्तानि हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन् बध्नाति पापं कर्म अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, तत् से भवति कटुकफलं तत्- पापं कर्म से- तस्यायतचारिणो भवति, कटुकफलमित्यनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः // 1 // एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् / / 2 // एवमयतमासीनो-निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत्॥३॥ एवमयतं स्वपन्- असमाहितो दिवा प्रकामशय्यादिना(वा),शेषं पूर्ववत्॥४॥एवमयतं भुजानोनिष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥५॥एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा),शेषं पूर्ववत्॥६॥अत्राह- यद्येवं पापकर्मबन्धस्ततः कहं चरे इत्यादि, कथं केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत, कथं स्वपेत्, कथं भुजानो भाषमाणः पापं कर्म न बध्नातीति?॥ 7 // आचार्य आह- जयं चरे इत्यादि, यतं चरेत्सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत्- समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत- उपयुक्त आकुञ्चनाद्यकरणेन, यतं स्वपेत्समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः- सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणःसाधुभाषया मृदु कालप्राप्तं च पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि, न बध्नाति नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति // 8 // किंच-सव्वभूय इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, 0 प्रतिक्रमणं कृत्वा स्वाध्यायः ततः शयनं वि. प. / // 248 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy