________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 236 // चतुर्थमध्ययन षड्जीवनिकायम्, सूत्रम् 6 चारित्रधर्म पचमहाव्रत स्वरूपम्। दव्वओ अदिण्णादाणं णो भावओ, हरामीति अब्भुजयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्वओवि भावओवि, चरिमभंगो पुण सुन्नो॥ ___अहावरे चउत्थे भंते! महव्वए मेहुणाओवेरमणं, सव्वं भंते! मेहुणं पच्चक्खामि, से दिव्वं वा माणुसंवा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविजा नेवऽन्नेहिं मेहुणं सेवाविजा मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमिन कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। चउत्थे भंते! महव्वए उवट्ठिओमि सव्वाओ मेहुणाओ वेरमणं 4 // सूत्रम् 6 // उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्थमाह- अहावरे इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त! महाव्रते मैथुनाद्विरमणम्, सर्वं भदन्त! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा- दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम्, अप्सरोऽमरसंबन्धीति भावः, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि- निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, णेव सय मेहुणं सेविज्जा नैव स्वयं मैथुन सेवे, नैवान्टमैथुन सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् / विशेषस्त्वयं- मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् / दोसेणमिमीए वयं भंजेमित्ति दोसुब्भवं, रागेण होइ। द्रव्यादिचतुर्भङ्गी द्रव्यतोऽदत्तादानं न भावतः हरामीत्यभ्युद्यतस्य तदसंपत्तौ भावतो नो द्रव्यतः एवमेव संपत्तौ द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनःशून्यः। ॐ द्वेषेणास्या व्रत भजामि इति द्वेषोद्भवम्, रागेण भवति। // 236 //