________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् | / / 235 // अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओवेरमणं, सव्वं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वारण्णेवा अप्पंवा बहु चतुर्थमध्ययनं वा अणुंवा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिण्हिज्जा नेवऽन्नेहिं अदिन्नं गिण्हाविजा अदिन्नं गिण्हते वि अन्ने न षड्जीव निकायम्, समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणंवायाएकाएणंन करेमि न कारवेमि करतंपि अन्नंन समणुजाणामि। तस्स भंते! सूत्रम्५ पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि / तच्चे भंते! महव्वए उवट्ठिओमि सव्वाओ अदिन्नादाणाओ वेरमणं 3 // सूत्रम् 5 // चारित्रधर्मे पञ्चमहाव्रत उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह- अहावरे इत्यादि, अथापरस्मिंस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणम्, सर्व स्वरूपम्। भदन्त! अदत्तादानं प्रत्याख्यामीति पूर्ववत् तद्यथा- ग्रामे वा नगरे वा अरण्ये वा इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति बृद्ध्यादीन् गुणानिति ग्रामः तस्मिन्, नास्मिन् करो विद्यत इति नकरम्, अरण्यं-काननादि। तथा अल्पं वा बहु वा अणु वा स्थूलं वा ] चित्तवद्वा अचित्तवद्वा इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्पं- मूल्यत एरण्डकाष्ठादि बहु- वज्रादि अणु- प्रमाणतो वज्रादि स्थूलं- एरण्डकाष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति-चेतनाचेतनमित्यर्थः। णेव सयमदिण्णं गेण्हिज्जत्ति नैवस्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि अदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादिच भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयंअदत्तादानं चतुर्विधं- द्रव्यतः क्षेत्रतः कालतो भावतच, द्रव्यतोऽल्पादौ क्षेत्रतो ग्रामादौ कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् / द्रव्यादिचतुर्भङ्गी पुनरियं-दव्वओ णामेगे अदिण्णादाणे णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओ णो भावओ। तत्थ अरत्तदुट्ठस्स साहुणो कहिंचि अणणुण्णवेऊण तणाइ गेण्हओ (r) द्रव्यतो नामैकमदत्तादानं नो भावतः भावतो नामैकं नो द्रव्यतः एक द्रव्यतोऽपि भावतोऽपि एकं नो द्रव्यतो नो भावतः, तत्रारक्तद्विष्टस्य साधोः कुत्रचित् अननुज्ञाप्य तृणादि गृह्णतो - // 235 //