________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 234 // महव्वए उवट्ठिओमि सव्वाओ मुसावायाओ वेरमणं 2 / / सूत्रम् 4 // चतुर्थमध्ययनं इदानीं द्वितीयमाह- अहावरे इत्यादि, अथापरस्मिन् द्वितीये भदन्त! महाव्रते मृषावादाद्विरमणम्, सर्वं भदन्त! मृषावादं षड्जीव निकायम्, प्रत्याख्यामीति पूर्ववत्, तद्यथा- क्रोधाद्वा लोभावे त्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः, भयाद्वा हास्याद्वा इत्यनेन तु प्रेमद्वेष सूत्रम् 4 कलहाभ्याख्यानादिपरिग्रहः, णेव सयं मुसं वएज त्ति नैव स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यन्यान् न चारित्रधर्म समनुजानामि इत्येतत्यावज्जीव मित्यादिच भावार्थमधिकृत्य पूर्ववत् / विशेषस्त्वयं- मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेधः पञ्चमहाव्रत स्वरूपम्। असद्भावोद्भावनं अर्थान्तरं गर्हा च, तत्र सद्भावप्रतिषेधो यथा- नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावोद्भावनं यथा- अस्त्यात्मा सर्वगतः श्यामाकतन्दुलमात्रो वेत्यादि, अर्थान्तरं गामश्वमभिदधत इत्यादि, गर्दा काणं काणमभिदधत इत्यादिः, पुनरयं क्रोधादिभावोपलक्षितश्चतुर्विधः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतोरात्र्यादी भावतः क्रोधादिभिः इति / द्रव्यादिचतुर्भङ्गी पुनरियं-दव्वओणामेगे मुसावाए णो भावओ भावओ णामेगे णो दव्वओ एगे दव्वओऽवि भावओऽवि एगे णो दव्वओ णो भावओ। तत्थ कोइल कहिंचि हिंसुजओ भणइ-इओ तए पसुमिणा(गा) इणो दिट्ठत्ति?, सो दयाए दिहावि भणइ-ण दिट्ठत्ति, एस दव्वओ मुसावाओ नो भावओ, अवरो मुसं भणीहामित्ति परिणओ सहसा सच्चं भणइ एस भावओ नो दव्वओ, अवरो मुसंड भणीहामित्ति परिणओ मुसंचेव भणइ, एस दव्वओऽवि भावओऽवि, चरमभंगो पुण सुण्णो 2 // // 234 // 0 द्रव्यतो नामैको मृषावाद नो भावतः भावतो नामैको नो द्रव्यतः एको द्रव्यतोऽपि भावतोऽपि एको नो द्रव्यतो नो भावतः, तत्र कोऽपि कुत्रचित् हिंसोद्यतो %8भणति- इतस्त्वया पशुमगादयो दृष्टा इति?, स दयया दृष्टा अपि भणति न दृष्टा इति, एष द्रव्यतो मृषावादो न भावतः, अपरो मषा भणिष्यामीति परिणतःसहसा सत्यं 8 भणति एष भावतो नो द्रव्यतः, अपरो मृषा भणिष्यामीति परिणतो मृषैव भणति एष द्रव्यतोऽपि भावतोऽपि, चरमभङ्गः पुनः शून्यः। 8