SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 233 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 4 चारित्रधर्मे पचमहाव्रत स्वरूपम्। वा स्थावरं वा अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि' स्थूरः, स चैकैको द्विधा- त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरोवनस्पत्यादिः, बादरस्त्रसो गवादिः स्थावरः पृथिव्यादिः, एतान्, णेव सयं पाणे अइवाएज त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङां तिङो भवन्ती'ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् / इह च 'सूक्ष्म वा बादरं वे'त्यादिनोपलक्षित 'एकग्रहणे तज्जातीयग्रहण'मिति चतुर्विधः। प्राणातिपातो द्रष्टव्यः, तद्यथा- द्रव्यतःक्षेत्रतःकालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा, भावतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति / चतुर्भङ्गिका चात्र-दव्वओणामेगे पाणाइवाएण भावओइत्यादिरूपायथा द्रुमपुष्पिकायां तथा द्रष्टव्येति। व्रतप्रतिपत्तिं निगमयन्नाह- प्रथमे भदन्त! महाव्रते उपस्थितोऽस्मि उप-सामीप्येन तत्परिणामापत्त्या स्थितः, इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति। 'भदन्त' इत्यनेन चादिमध्यावसानेषु गुरुमनापृच्छ्य न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवतीत्येवमाह / / उक्तं प्रथमं महाव्रतम् / / ___ अहावरे दुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पञ्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुसंवइजा नेवऽन्नेहिं मुसंवायाविजा मुसंवयंतेऽवि अन्नेन समणुजाणामिजावजीवाए तिविहं तिविहेणं, मणेणं वायाएकाएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि / दुच्चे भंते! द्रव्यतो नामैकः प्राणातिपातो न भावतः / // 233 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy