________________ चतुर्थमध्ययनं षड्जीव श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 231 // निकायम्, सूत्रम् 3 चारित्रधर्मे पन्धमहाव्रत स्वरूपम्। ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामीति / आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवम्, न करोमीत्यादिना तदुभयसिद्धेरिति / / __पढमे भंते! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते! पाणाइवायं पञ्चक्खामि, से सुहुमं वा बायरं वा तसंवा थावरं वा, नेव सयं पाणे अइवाइजा नेवऽन्नेहिं पाणे अइवायाविजा पाणे अइवायंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाएकाएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि / पढमे भंते! महव्वए उवट्ठिओमि सव्वाओ पाणाइवायाओ वेरमणं 1 // सूत्रम् 3 // अयंचात्मप्रतिपत्त्यर्हो दण्डनिक्षेपःसामान्यविशेषरूप इति,सामान्येनोक्तलक्षण एव, सतु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह- पढमे भंते इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन्, भदन्तेति गुरोरामन्त्रणम्, महाव्रत इति महच्च तद्वतंच महाव्रतम्, महत्त्वं चास्य श्रावकसंबन्ध्यणुव्रतापेक्षयेति। अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं / सो पच्चखाणकुसलो सेसा सव्वे अकुसला उ॥१॥ एनांचासंमोहार्थमुपरिष्टाव्याख्यास्यामः / तस्मिन् महाव्रते प्राणातिपाताद्विरमण मिति प्राणा- इन्द्रियादयः / तेषामतिपातः प्राणातिपात:- जीवस्य महादुःखोत्पादनम्, न तुजीवातिपात एव, तस्मात्- प्राणातिपाताद्विरमणम्, विरमणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनम्, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य सर्वं भदन्त! प्राणातिपातं प्रत्याख्यामीति सर्वमिति-निरवशेषम्, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणम्, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आङाभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखंख्यापनं प्राणातिपातस्य करोमि प्रत्याख्या / / 231 //