________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 230 // उक्तो जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रं- इच्चेसिं इत्यादि, सर्वे प्राणिनः परमधर्माण इत्यनेन चतुर्थमध्ययनं | हेतुना एतेषां षण्णां जीवनिकायाना मिति, सुपांसुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु-अनन्तरोदितस्वरूपेषु / षड्जीव निकायम्, नैव स्वयं आत्मना दण्डं संघटनपरितापनादिलक्षणं समारभेत प्रवर्तयेत्, तथा नैव अन्यैः प्रेष्यादिभिः दण्डं उक्तलक्षणंसमारम्भयेत्। सूत्रम् 2 कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो न समनुजानीयात् नानुमोदयेदिति विधायक भगवद्वचनम् / यतश्चेवमतो षट्काय विराधना यावज्जीव मित्यादि यावव्युत्सृजामि, एवमिदंसम्यक् प्रतिपद्यतेत्यैदम्पर्यम्, पदार्थस्तु-जीवनंजीवा यावज्जीवा यावजीवं निरूपणम्। आप्राणोपरमादित्यर्थः, किमित्याह- त्रिविधं त्रिविधेने ति तिम्रो विधा- विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन- करणेन, एतदुपन्यस्यति- मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह- न करोमि स्वयम्, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न समनुजानामी ति, तस्य भदन्त! प्रतिक्रामामी ति तस्येत्यधिकृतो दण्डः संबध्यते, संबन्धलक्षणा अवयवलक्षणा वा षष्ठी, योऽसौ त्रिकालविषयो दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रामामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्,8 प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थम्, प्रतिक्रामामीति भूताद्दण्डानिवर्तेऽहमित्युक्तं भवति, तस्माच्च। निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामि गर्हामी ति, अत्रात्मसाक्षिकी निन्दा परसाक्षिकी गर्हा-जुगुप्सोच्यते, आत्मानं // 230 // अतीतदण्डकारिणमश्लाघ्यं व्युत्सृजामी ति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामीति- त्यजामि, 0 लिङोक्तत्त्वाद्, तथा च नाद्यपुरुषवचनेनाप्युक्तौ क्षतिः /