________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 225 // भाष्यम् पत्रे प्रथमतयेति-स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति।आह-यद्येवं सव्वोऽवि किसलओ चतुर्थमध्ययनं खलु उग्गममाणो अणंतओ भणिओ' इत्यादि कथं न विरुध्यते इति?, उच्यते, इह बीजजीवोऽन्यो वा बीजमूलत्वेनोत्पद्य षड्जीव निकायम्, तदुच्छूनावस्थांकरोति, ततस्तदनन्तरभाविनी किसलयावस्थां नियमेनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्व सूत्रम् 1 सावेव मूलजीवोऽनन्तजीवतर्नुपरिणम्य(मय्य) स्वशरीरतया तावद्वर्धते यावत्प्रथमपत्रमिति न विरोधः / अन्ये तु व्याचक्षते- घजीवनिकायः प्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत्, शेषं किसलयादि सकलं नावश्यं मूलजीवपरिणामा-2 58-59 विर्भावितमिति मन्तव्यम्, ततश्च सव्वोऽवि किसलओखलु उग्गममाणो अणंतओ होइ' इत्याद्यप्यविरुद्धम्, मूलपत्रनिर्वर्त- मूलादिजीव स्वरूपम्। नारम्भकाले किसलयत्वाभावादिति गाथार्थः // एतदेवाह भाष्यकार: भा०-विद्धत्थाविद्धत्था जोणी जीवाण होइनायव्वा। तत्थ अविद्धत्थाए वुक्कमई सोय अन्नोवा॥५८॥ विध्वस्ताऽविध्वस्ता- अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः॥ भा०- जो पुण मूले जीवो सो निव्वत्तेइ जा पढमपत्तं / कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति॥५९॥ यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वतयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थः पूर्ववदेव / कन्दादि Bयावबीजं शेषमन्ये प्रकुर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतदविरोधि, एकतःसमुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तदनु कन्दादिभावतः अन्यत्र कन्दादेवनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थः / / सर्वोऽपि किशलयः खलु उद्गच्छन् अनन्तको भणितः।