________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 224 // इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रबीजा इति- अग्रं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः- एवं मूलं बीजं येषां ते चतुर्थमध्ययनं मूलबीजा- उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा- इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजा:- शल्लक्यादयः, तथा षड्जीव निकायम्, बीजाद्रोहन्तीति बीजरुहाः- शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः- प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्तथाविधा सूत्रम् स्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेक- षड्जीवनिकायः नियुक्तिः 232 भेदसंदर्शनार्थम्, वनस्पतिकायिकग्रहणं सूक्ष्मबादरायशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः भेदाः मूलादिजीव पृथिवीशर्करादयः तथाऽवश्यायमिहिकादयस्तथा अङ्गारज्वालादयः, तथा झञ्झामण्डलिकादयो (भेदाः) सूचिता इति / स्वरूपम्। सबीजाश्चित्तवन्त आख्याता इति, एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजा:- स्वस्वनिबन्धनाश्चित्तवन्तः- आत्मवन्त आख्याताः कथिताः / एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् / सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का-किं बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुत्क्रान्ते उत्पद्यते इति?, अस्य व्यपोहायाह नि०- बीए जोणिब्भूए जीवो वुक्कमइ सोय अन्नो वा। जोऽविय मूले जीवो सोऽवि य पत्ते पढमयाए॥२३२॥ बीजे योनिभूते इति, बीजं हि द्विविधं भवति- योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्वस्तयोनि च, प्ररोहसमर्थं ] तदसमर्थं चेत्यर्थः। तत्र योनिभूतं सचेतनमचेतनंच, अयोनिभूतं तु नियमादचेतनमिति। तत्र बीजे योनिभूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः। योनिभूते तु-योन्यवस्थे बीजे, योनिपरिणाममत्यजतीत्युक्तं भवति, किमित्याह- जीवो व्युत्क्रामति- उत्पद्यते, स एव-पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्ध्य, अन्यो वा पृथिवीकायिकादिजीव एवमेव, योऽपि च मूले जीव इति य एव मूलतया परिणमते जीवः सोऽपि च // 224 //