________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 223 // |शस्त्रम्। एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमितिगाथार्थः॥ इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, चतुर्थमध्ययनं तच्च त्रिप्रकारं भवतीत्याह षड्जीव निकायम्, नि०-किंची सकायसत्थं किंची परकाय तदुभयं किंचि। एयं तु दव्वसत्थं भावे अस्संजमो सत्थं // 231 // सूत्रम् 1 किंचित्स्वकायशस्त्रम्, यथा कृष्णामृनीलादिमृदःशस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपिशस्त्रयोजना कार्या, तथा किश्चित्परकाये षड्जीवनिकायः नियुक्तिः ति परकायशस्त्रम्, यथा पृथ्वी अप्तेजःप्रभृतीनां अप्तेजःप्रभृतयोवा पृथिव्याः, तदुभयं किञ्चिदिति किञ्चित्तदुभयशस्त्रं भवति, 230-231 यथा कृष्णा मृद् उदकस्य स्पर्शरसगन्धादिभिः पाण्डुमृदश्च, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्णमृद् उदकस्य द्रव्यभावभेदपाण्डुमृदश्च शस्त्रं भवति, एवं(तत्)तु द्रव्यशस्त्रम्, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, भाव इति पृथिव्यादीनां द्वारपरामर्शः, असंयमः शस्त्रंचरणस्येति गाथार्थः॥एवंच परिणतायां पृथ्व्यामुच्चारादिकरणेऽपिनास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति / एष तावदागमः, अनुमानमप्यत्र विद्यते-सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङ्करोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्करवत्, एवमागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानांजीवत्वम्, उक्तं च- आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् / अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये // 1 // आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः। वीतरागोऽनृतं वाक्यं, न ब्रूयाद्रेत्वसंभवात्॥२॥इत्यलं प्रसङ्गेन। एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातम्, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् / विशेषस्त्वभिधीयते-सात्मकंजलम्, भूमिखातस्वाभाविकसंभवात्, दर्दुरवत् / सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् / सात्मकः पवनः, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद्, गोवत् / सचेतनास्तरवः, सर्वत्वगपहरणे मरणाद्, गर्दभवत्।वनस्पतिजीवविशेषप्रतिपादनायाह- तंजहा अग्गबीया // 223 //