SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 226 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् षड्जीवनिकायः भाष्यम६० त्रसाधिकारः। अतिदेशमाह भा०- सेसं सुत्तप्फासंकाएकाए अहक्कमंबूया। अज्झयणस्था पंच य पगरणपयवंजणविसुद्धा॥६०॥ शेष सूत्रस्पर्शं उक्तलक्षणं काये काये पृथिव्यादौ यथाक्रमं यथापरिपाटि ब्रूयात् अनुयोगधर एव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान् पञ्च च- प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् ब्रूयात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति / प्रक्रियन्तेऽर्था अस्मिन्निति प्रकरणं- अनेकार्थाधिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान् ब्रूयादिति गाथार्थः / इदानीं त्रसाधिकार एतदाह-से जे पुण इमे इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि'ति वचनात्, अथ ये पुनरमी- बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहवः एकैकस्यां जातौ त्रसाः प्राणिनः- त्रस्यन्तीति त्रसाः प्राणा- उच्छ्रासादय एषां विद्यन्त इति प्राणिनः, तद्यथा- अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय इति प्रोच्यत इति योगः, तत्राण्डाजाता अण्डजाः- पक्षिगृहकोकिलादयः, पोता एव जायन्त इति पोतजाः, अन्येष्वपि दृश्यते (पा० 3-2-101) डप्रत्ययो जनेरिति वचनात् / ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाजाता रसजा:- तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजा- मत्कुणयूकाशतपदिकादयः, संमूर्छनाज्जाताः संमूर्च्छनजाः- शलभपिपीलिकामक्षिकाशालूकादयः, उद्भेदाज्जन्म येषां ते उद्भेदाः, अथवा उद्भेदनमुद्भित् उद्भिज्जन्म येषां ते उद्भिज्जा:- पतङ्गखञ्जरीटपारिप्लवादयः, उपपाताजाता उपपातजाः अथवा उपपाते भवा औपपातिका- देवा नारकाच। // 226 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy