________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 220 // अत्तागमो कह णु॥१॥अथवा 'आवसंतेणं'ति गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्यमित्येतदाह, चतुर्थमध्ययन ज्ञानादिवृद्धिसद्भावाद्, उक्तं च-णाणस्स होइ भागी थिरयरओ दसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं न मुंचंति // 1 // षड्जीव निकायम्, अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य सूत्रम् 1 मोक्षमूलत्वात्, उक्तं च-मूलं संसारस्सा होंति कसाया अणंतपत्तस्स / विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥कृतं षड्जीवनिकायः स्थावरप्रसङ्गेन, प्रकृतं प्रस्तुम:- तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह- एषा षड्जीवनिकायिका केन प्रवेदिता प्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह- समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया / सुपन्नत्ते ति, सा च तेन श्रमणेन महातपस्विना भगवता समग्रैश्वर्यादियुक्तेन महावीरेण 'शूर वीरविक्रान्ता' विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च- विदारयति यत्कर्म, तपसा च विराजते / तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः॥१॥ महांश्चासौ वीरश्च महावीरस्तेन महावीरेण, काश्यपेने ति काश्यपसगोत्रेण, प्रवेदिता नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा स्वाख्याते ति सदेवमनुष्यासुरायांपर्षदि सुष्ठ आख्याता स्वाख्याता, तथा सुप्रज्ञप्ते ति सुष्टु प्रज्ञप्ता यथैवाख्याता तथैव सुष्टु- सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिका श्रेयो मेऽध्येतुं श्रेयः- पथ्यं हितम्, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, ततश्च श्रेय आत्मनोऽध्येतुम्, अध्येतु'मिति पठितुं श्रोतुं भावयितुम्, कुत // 220 // 4- शास्त्रमात्मागमः (आप्तागमः) कथं नु? // 1 // ज्ञानस्य भागी भवति स्थिरतरः दर्शने चारित्रे च। धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥१॥ॐ मूलं संसारस्य भवन्ति कषाया अनन्तपत्रस्य / विनयः स्थानप्रयुक्तो दुःखविमुक्तस्य मोक्षस्य // 1 // 0 आत्मार्थः।