SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 1 षङ्जीवनिकाय: स्थावरत्रसानां भेदाः। // 221 // इत्याह-अध्ययनं धर्मप्रज्ञप्तिः निमित्तकारणहेतुषु सर्वासांप्रायो दर्शन मिति वचनात् हेतौ प्रथमा, अध्ययनत्वाद्- अध्यात्मानयनाच्चेतसो विशुद्ध्यापादनादित्यर्थः, एतदेव कुत इत्याह- धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः, ततो धर्मप्रज्ञप्तेः कारणाच्चेतसो विशुद्ध्यापादनंचेतसो विशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति / अन्ये तुव्याचक्षते अध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतयाऽनुवादमात्रमेतदिति // शिष्यः पृच्छति- कतरा खल्वि त्यादि, सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह- इमाखल्वि त्यादि सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशोदातव्य एवेति। तंजहा- पुढविकाइया इत्यादि, अत्र 'तद्यथे' त्युदाहरणोपन्यासार्थः, पृथिवी- काठिन्यादिलक्षणा प्रतीता सैव कायः- शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एव ता एव कायः- शरीरं येषां तेऽप्कायाः, अप्काया एव अप्कायिकाः। तेज- उष्णलक्षणं प्रतीतं तदेव कायः- शरीरं येषां ते तेजःकायाः, तेजःकाया एव तेजःकायिकाः। वायु:- चलनधर्मा प्रतीत एव स एव काय:- शरीरं येषां ते वायुकायाः, वायुकाया एव वायुकायिकाः।वनस्पतिः- लतादिरूपः प्रतीतः, स एव कायःशरीरं येषां ते वनस्पतिकायाः, वनस्पतिकाया एव वनस्पतिकायिकाः। एवं त्रसनशीलास्त्रसा:- प्रतीता एव, त्रसा:कायाःशरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्रसकायिकाः। इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानम्, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरं तत्प्रतिपक्षत्वात्तेजस्कायिकानाम्, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानाम्, तदनन्तरंवायोःशाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानाम्, तदनन्तरं वनस्पतेस्त्रसोप (r) विभक्तीनाम्।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy