SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 219 // चतुर्थमध्ययनं षड्जीवनिकायम्, सूत्रम् 1 षङ्जीवनिकायः स्थावरत्रसानां भेदाः। सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानस्वामिनेत्यर्थः, एव मिति प्रकारवचनःशब्दः, आख्यात मिति केवलज्ञानेनोपलभ्यावेदितम्, किमत आह- इह खलु षड्जीवनिकायनामाध्ययनम्, अस्तीति वाक्यशेषः, इहे ति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृत्प्रवचनेषु च, षड्जीवनिकाये ति पूर्ववत्, नामे त्यभिधानम्, अध्ययन मिति पूर्ववदेव / इह च श्रुतं मये त्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च,- एगंत खणियपक्खे गहणं चिअ सव्वहा ण अत्थाणं / अणुसरणसासणाई कुओ उ तेलोगसिद्धाइं?॥१॥तथा आयुष्म निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च-आमे घडे निहत्तं जहा जलं तं घडं विणासेइ / इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ // 1 // आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा तेन भगवता एवमाख्यात मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेन न ह्यसर्वज्ञेन अनात्मवता अन्यतस्तथाभूतात्सम्यगनिश्चित्य परलोकदेशना कार्येत्येतदाह, विपर्ययसंभवाद्, उक्तं च-किंइत्तो पावयरं? संमं अणहिगयधम्मसब्भावो। अण्णं कुदेसणाए कट्ठयरागंमि पाडेइ॥ १॥अथवाऽन्यथा व्याख्यायते सूत्रैकदेश:- आउसंतेणं ति भगवत एव विशेषणम्, आयुष्मता भगवता- चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानादिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्, उक्तं च-वयणं न कायजोगाभावे ण य सो अणादिसुद्धस्स। गहणमि य णो हेऊ सत्थं O एकान्तक्षणिकपक्षे ग्रहणमेव सर्वथा नार्थानाम् / अनुस्मरणशासनानि कुतस्तु त्रैलोक्य (ते लोक०) सिद्धानि // 1 // 0 आमे घटे निहितं यथा जलं तं घट विनाशयति / इति (एवं) सिद्धान्तरहस्यमल्पाधारं विनाशयति // 1 // 0 किमेतस्मात्पापकरं सम्यगनधिगतधर्मसद्भावः। अन्यं कुदेशनया कष्टकरागसि पातयति // 1 // 0 वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य / ग्रहणे च नो हेतुः * लोक्क० प्र. I * कायस्येति / R // 219 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy