________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 215 // भाष्यम् च। इति दर्शितम्। आह- अस्मिन् द्वारे सति अमयो नतु मृन्मय इव घट इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनु- चतुर्थमध्ययनं ग्रहार्थमुक्तमिति लक्ष्यते, भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) षड्जीव निकायम्, वयमभिप्राय विद्म इति ।अन्यत्वभिदधति-अन्यकर्तृकैवासौगाथेतिगाथार्थः॥व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम्, सूत्रम् 1 अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार: षड्जीवनिकायः __ भा०-साफल्लदारमहुणा निच्चानिच्चपरिणामिजीवम्मि। होइ तयं कम्माणं इहरेगसभावओऽजुत्तं // 55 // 55-56 साफल्यद्वारमधुना- तदेतद्व्याख्यायते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफल-8 साफल्यद्वारंप्रदानलक्षणम्, केषामित्याह- कर्मणां- कुशलाकुशलानाम्, कालभेदेन कर्तृभोक्तृपरिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः परिमाणद्वारं कर्मणां कालान्तरफलप्रदानमिति, इतरथा पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति- यदि नित्य आत्मा कर्तृस्वभाव एव कुतोऽस्य भोगः?, भोक्तृस्वभावत्वे चाकर्तृत्वम्, क्षणिकस्य तु कालद्वयाभावादेवैतदुभयमनुपपन्नम्, उभयेचसति कालान्तरफलप्रदानेन कर्म सफलमिति गाथार्थः। द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिमाणद्वारमाह भा०- जीवस्स उ परिमाणं वित्थरओ जाव लोगमेत्तं तु / ओगाहणा य सुहुमा तस्स पएसा असंखेजा // 56 // जीवस्य तु परिमाणं विततस्य विस्तरतो विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्धातचतुर्थसमये भवति, तत्रावगाहना च सूक्ष्मा विततैकैकप्रदेशरूपा भवति, तस्य जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः। 0 भाष्यगाथा 49 अन्त्यभागः। // 215 //